Devotional Hyms - Vishnu

।।श्रीः।।

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं

प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते।

चेतोभृङ्गं भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम्।।1।।

शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे

द्युःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात्।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिहंनघपदसरसिजमकरन्दम्।।2।।

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः

गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन्।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम्।।3।।

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे

गन्धफलीसद्य्शा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम्।।4।।

तव हितमेकं वचनं वक्ष्ये श्रणु सुखकामो यदि सततं

स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।

चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम्।।5।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

लक्ष्मीनृसिंहपञ्चरत्नं संपूर्णम्।।