Preliminary Texts
।।श्रीः।। |
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः। |
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः। |
नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः। |
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च। |
प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः। |
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः। |
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः। |
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा। |
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम्। |
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम्। |
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः। |
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः। |
प्रज्ञानघन एवाहं विज्ञानघन एव च। |
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च। |
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः। |
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ। |
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः। |
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च। |
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः। |
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः। |