Devotional Hymns - Miscellaneous

।।श्रीः।।
।।प्रातःस्मरणस्तोत्रम्।।
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं

सच्चित्सुखं परमहंसगतिं तुरीयम्।

यस्तु प्रजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः।।1।।

प्रातर्भजामि मनसां वचसामगम्यं

वाचो विभान्ति निखिला यदनुग्रहेण।

यन्नेति नेति वचनैर्निगमा अवोचं
स्तं देवदेवमजमच्युतमाहुरग्र्यम्।।2।।

प्रातर्नमामि तमसः परमर्कवर्णं

पूर्णं सनातनपदं पुरुषोत्तमाख्यम्।

यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजंगम इव प्रतिभासितं वै।।3।।

श्लोकत्रयमिदं पुण्यं

लोकत्रयविभूषणम्।

प्रातःकाले पठेद्यस्तु
स गच्छेत्परमं पदम्।।4।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

प्रातःस्मरणस्तोत्रं संपूर्णम्।।