Comprehensive Texts

अथ यन्त्रविरचनाभि

र्मन्त्रविशेषान्बहुप्रकारयुतान्।

कथयिष्ये मन्त्रविदा
मैहिकपारत्रिकाप्तये सुधियाम्।।32.1।।

त्रिगुणितसंज्ञे माया

लंकृतकोणे तयाभिवीते च।

या या विशेषक्लृप्ति
स्तां तामपि संग्रहेण समभिदधे।।32.2।।

कोणोल्लसितसुधाक्षर

गलदमृतस्फुरितवह्निपरिवीतान्।

बिन्दोर्मध्यगबीज
स्थितान्सुधाधारया परिस्रुतया।।32.3।।

पूर्णसुषुम्नारन्ध्रां

साध्यतनुं संस्मरञ्शिरसि बध्यात्।

तेनारोगी पुरुषः
प्रज्ञावान्दीर्घमायुराप्नोति।।32.4।।

शीतांशुमण्डलस्थं

कूर्मचतुर्थात्तकोणलसितमिदम्।

शीतप्रलिप्तजप्तं
कधृतं च शिरोरुजाज्वरार्तिहरम्।।32.5।।

तद्यन्त्रयुगं विलिखे

दभिविलिखितसाध्यसाधकाख्ययुतम्।

साध्यमधस्तात्कृत्वा
बद्ध्वात्र स्वपतु साधको नित्यम्।।32.6।।

विधिनानेन तु सम्य

क्साध्योऽस्य वशे भवेदयत्नेन।

तत्तु खनित्वागारे
तत्रान्नं सिद्धमत्तु वश्यकरम्।।32.7।।

साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ

कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या।

आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा
दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः।।32.8।।

त्रिगुणितविहिता विधयः

षड्गुणिते च प्रयोजनीयाः स्युः।

रक्षाकर्मणि विहितं
तत्प्रायः प्रचुरमन्त्रयुक्ततया।।32.9।।

पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं

शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि।

इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ
द्राज्ञां वामदृशां प्रियो भवति संग्रामे पुरे वा चिरम्।।32.10।।

चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं

प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम्।

क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत
व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी।।32.11।।

द्वादशगुणिते शूले

नृसिंहबीजं नरेन्द्रपुरवीतम्।

पीतालिप्तं पुरलघु
धूपितमन्तःप्रबद्धकर्मयुतम्।।32.12।।

चतसृषु दिक्षु निखन्या

त्सीमायां द्वारतोरणाधो वा।

देशाभिगुप्तिरेषा
गुप्ततमा सूरिभिः पुरा प्रोक्ता।।32.13।।

अलदलनिशाकुशीतै

र्मसृणे पट्टे विलिख्य यन्त्रमिदम्।

धेरस्थापनकर्म
प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री।।32.14।।

तत्र विशन्ति न चोरा

ग्रहकृत्या स्यान्निकेतरक्षा च।

अश्माभिपातवारण
मभिवृद्धिं संपदां करोत्यचिरात्।।32.15।।

तद्वद्धटार्गलाख्यं

यन्त्रं नीले विलिख्य पट्टवरे।

मेचकसाध्यप्रतिकृति
हृदये गुलिकां विधाय निक्षिप्य।।32.16।।

त्रिमधुरपूर्णे पात्रे

विन्यस्याभ्यर्च्य गन्धपुष्पाद्यैः।

बलिमपि विकिरेद्रात्रिषु
सप्ताहादानयेद्वधूमिष्टाम्।।32.17।।

तामेवाथ प्रतिकृति

मग्नौ किंचित्प्रतापयेत्प्रजपन्।

शक्तिं पाशाङ्कुशमनु
साध्याह्वयदर्भितां समाहितधीः।।32.18।।

विधिनामुना त्रिरात्रा

द्गर्वितधियमपि सुराङ्गनां मन्त्री।

आकर्षेन्निजवाञ्छा
प्रदायिनीं मदनबाणविह्वलिताम्।।32.19।।

यन्त्रं तदेव लाक्षा

ताम्रावीतं निधाय कलशजले।

जप्त्वा भानुसहस्रक
मभिषिञ्चेद्रजतकाञ्चनाभ्यां च।।32.20।।

तद्वद्विधाय कलशे

तद्यन्त्रं धारयेत्पुनर्नित्यम्।

वाञ्छितसिद्धिं लभते
भक्त्या प्रणमन्ति देवता अपि तम्।।32.21।।

यन्त्रं तदेव विधिव

द्भित्तावालिख्य पूजयेद्दिनशः।

चोरारिभूतनागा
अपि तं देशं न वीक्षितुं शक्ताः।।32.22।।

आलिख्य वीरपट्टे

यन्त्रमिदं मस्तकार्पितं कृत्वा।

युध्यन्प्रत्यर्थिनमपि
हत्वा यात्यव्रणाङ्कितो योद्धा।।32.23।।

मदजलविलिखितमेत

द्यन्त्रं जप्तं च मस्तके न्यस्तम्।

करिणीमपि मदयेद्द्रा
क्चण्डतरे का कथा करेणुवरे।।32.24।।

बहुनेति भाषितेन कि

मेभ्यो मुख्यं न किमपि यन्त्रेभ्यः।

तस्मादमूनि सद्भि
र्धार्याणि च विश्ववश्यमिच्छद्भिः।।32.25।।

गजमृगमदकाश्मीरै

र्मन्त्रितमः सुरभिरोचनायुक्तैः।

विलिखेदलक्तकरसा
लुलितैर्यन्त्राणि सकलकार्यार्थी।।32.26।।

राज्या पटुसंयुतया

सपाशशक्त्यङ्कुशेन मन्त्रेण।

स्वाद्वक्तयाभिजुह्व
न्निश्युर्वीशांस्तथोर्वशीं वशयेत्।।32.27।।

हृल्लेखाग्निस्थसाध्याह्वयमपि बहिरांक्रोंवृतं वह्निगेह

द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः।

जप्त्वा शक्तिं तु पाशाङ्कुशलिपिसहितां तापयेद्दीपवह्नौ
नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति।।32.28।।

शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं

बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम्।

तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः कर्णिकै
स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम्।।32.29।।

शक्त्यन्तःस्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा

बद्धं शक्तिमनोभवाङ्कुशलिपिप्रोंभिः समावेष्टितम्।

शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च
त्रिस्वादौ परिभर्ज्य तत्समदतः साध्यो वशे तिष्ठति।।32.30।।

डान्तं शिखीलवयुतं दहनांशसाध्यं

मायांशसाधकमथाभिवृतं कलाभिः।

मध्योल्ल्सद्द्विमुखशूलमिदं तु भर्तु
र्यन्त्राह्वयं नरनताङ्गिवशंकरं स्यात्।।32.31।।

मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया

साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा क्लृप्तस्य शक्तिं हृदि।

रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति
ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत्।।32.32।।

वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा

मध्ये वामकरेण संशितमतिः संछादयंस्तन्मनाः।

पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम
न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत्।।32.33।।

मायाहृदोरथान्ते

ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा।

राजयुतपूजितेऽर्णा
न्स जये विजये च गौरि गान्धारि।।32.34।।

त्रिभुवनवशंकरीति च

सर्वलोकान्तिके वशंकरि च।

सर्वस्त्रीपुरुषवशं
करि सुदुघे वाक्षरान्प्रवीप्स्य ततः।।32.35।।

मायाद्द्विठान्तिको मनु

रेकाधिकषष्टिवर्णकः प्रोक्तः।

ऋषिरस्याजोऽतिनिचृ
च्छन्दो गौरी च देवता प्रोक्ता।।32.36।।

सचतुर्दशभिर्दशभि

स्तथाष्टभिश्चाष्टभिस्तथा दशभिः।

एकादशभिर्मन्त्रा
क्षरैः क्रमादुच्यते षडङ्गविधिः।।32.37।।

असकलशशिराजन्मौलिराबद्धपाशा

ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी।

अमरनिकरवन्द्या त्रीक्षणा शोणलेपां
शुककुसुमयुता स्यात्संपदे पार्वती वः।।32.38।।

अयुतं प्रजपेज्जुहुया

द्धृताप्लुतैः पायसैर्दशांशेन।

आराधयेत्तदङ्गै
र्मातृभिराशाधिपैश्च निशितमनाः।।32.39।।

तिलतण्डुलकैर्लोणै

स्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः।

साज्यैररुणकुवलयै
स्त्रिदिनं हवनक्रिया सुवश्यकरी।।32.40।।

नित्यं चादित्यगतां

देवीं प्रतिपद्य तन्मुखो जप्यात्।

अष्टोत्तरशतमह्ना
मादौ भुवनं वशीकरोत्यचिरात्।।32.41।।

वर्णादर्वाङ्मन्त्री

प्रयोजयेत्साध्यनामकर्मयुतम्।

प्रजपेद्वा हवनविधौ
वाच्छितसिद्धिप्रदस्तथा मन्त्रः।।32.42।।

सतारराजमुख्यन्ते राजाधिमुखिवर्णकान्।
संभाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत्।।32.43।।

वीप्स्य देविमहादेविपदं देवादिदेवि च।
प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत्।।32.44।।

कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत्।
सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः।।32.45।।

दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः।
पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता।।32.46।।

ब्रह्माश्रीमन्त्रसंप्रोक्ता प्रतिपत्तिरमुष्य च।
मन्त्रस्य जपक्लृप्तिस्तु तथा होमविधिर्मतः।।32.47।।

मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः।
प्रजपे हवने वाथ तथा तर्पणकर्मणि।।32.48।।

देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने

त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत्।

आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये
त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम्।।32.49।।

शक्तिं साध्यर्क्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं

जप्त्वा खन्याङ्कणेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः।

देवीमन्त्रेण रात्रौ दशपरशतसंख्यैस्तु काचन्दनाक्तै
र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म।।32.50।।

अन्नं मय्यह्यन्नं

मे देह्यन्नाधिपतये ममेत्युक्त्वा।

अन्नं प्रदापयेति च
ठद्वयुगान्तोऽन्नदायको मन्त्रः।।32.51।।

करणेन्द्रियरसधातु

द्वयवर्णैरङ्गमन्त्रपत्रपदैः।

द्व्ययुतजपावधिरेष
द्विसहस्रहुतं च सर्पिरन्नाभ्याम्।।32.52।।

दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्द्वीपवर्ये सुराढ्ये

कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याप्रभागे।

आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री संचिन्तयानो जपतु दिनमुखे संपदेऽन्नस्य मन्त्रम्।।32.53।।

नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत्।
अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः।।32.54।।

मायाविहितषडङ्गो

दिनमुखजप्यश्च षोडशसहस्रम्।

प्रोक्तो जपावसाने
सघृतैरन्नैर्दशांशको होमः।।32.55।।

रुद्रताण्डवविलोकनलोलां

भद्रवक्त्रनयनां भवकान्ताम्।

अन्नदाननिरतां जननीं तां
चिन्तयञ्जपतु चित्रदुकूलाम्।।32.56।।

वैश्रवणः पक्वाशः

पिङ्गलनिधिपौ तथैव वित्तेशः।

सकुबेरस्वाहान्ताः
सव्याहृतयः समीरिता मन्त्राः।।32.57।।

वित्तेशस्यान्तराले दशवटसमिधः सर्पिषाक्ता विविक्ता

होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ।

हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे
ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने।।32.58।।

मन्त्रैरेतैर्घृतयुत

पायसहोमोऽपि मन्त्रिणां विहितः।

लक्ष्म्यै सघृतैश्च तिलै
र्बिल्वसमिद्धो मतस्तदेव फलम्।।32.59।।

भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः।
बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः।।32.60।।

वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः।
होमः सर्पिष्मतान्नेन बीजेनाङ्गक्रिया मता।।32.61।।

रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं

वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम्।

ध्यायन्नासीनमप्यापणभुवि शतसंख्यं सविंशत्कमेवं
भीतापुष्पैर्घृताक्तैर्त्रिदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै।।32.62।।

वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्द्विठः।
मन्त्रोऽयुतजपः सर्पिः सहस्रहवनक्रियः।।32.63।।

शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश

द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा।

वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ
न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः।।32.64।।

राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः।
सायान्ते नतिरप्यष्टवर्णो वैयासिको मनुः।।32.65।।

मुनिव्रातावीतं मुदितधियमम्भोदरुचिर

द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम्।

परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं
समासीनं व्यासं स्मरत निरतं पुण्यचरितम्।।32.66।।

विकृतिसहस्रजपोऽयं

दशांशतः पायसाज्यहवनविधिः।

निरुपमकविताप्रज्ञा
व्याख्याश्रीसंपदावहो मन्त्रः।।32.67।।

करचरणपार्श्वमूल

द्युलोंहरेबिन्दुदुंसरसनार्णाः।

अलिकाद्या वर्मास्त्र
द्विठान्तिको मनुरयं ध्रुवादिः स्यात्।।32.68।।

अयुतं प्रजपेच्च षट्सहस्रा

वधि मन्त्रे जुहुयाद्दशांशमानम्।

तिलसर्षपतण्डुलैः सशाली
हविराज्यैः सुसमेधिते कृशानौ।।32.69।।

उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे

प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः।

तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा
न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव।।32.70।।

निजरिपुमचलाद्यैस्तैः ससंबाधवीतं

मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे।

तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं
दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम्।।32.71।।

योनिर्वियत्सुनेत्रं

परमे वर्णांस्तथास्थिगं मेदः।

रक्तस्थदृग्द्विठान्त
स्ताराद्योऽयं मनुर्दशार्णयुतः।।32.72।।

अयुतं जपेन्मनुमिमं

सहस्रवारं हुनेत्तथाज्येन।

ध्यातापि गिरिसुतेयं
जगतीं विश्वां वशीकरोत्यनिशम्।।32.73।।

अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना

दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम्।

देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा
दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः।।32.74।।

विद्ययानुदिनहृद्ययानया

होमकर्मवरहेमदायि तत्।

कामितां सपदि वामलोचना
मानयेदपि च मारपीडिताम्।।32.75।।

हवनक्रिया सपदि वश्यकरी

मधुरावसेकपटुना पटुना।

सदृशो न कश्चन जगत्यपरो
मनुनामुनानयनकर्मविधौ।।32.76।।

वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे

रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः।

श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता
वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात्।।32.77।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वात्रिंशः पटलः।।