Comprehensive Texts

अथ प्रवक्ष्यामि सुदुर्लभाप्त्यै

विद्यां विशिष्टां त्रिपुराभिधानाम्।

धात्रीप्रभेदापि जगत्यवाप्त
त्रिंशत्प्रकारा त्रिदशाभिवन्द्या।।8.1।।

त्रिमूर्तिसर्गाच्च पुराभवत्वा

त्त्रयीमयत्वाच्च पुरैव देव्याः।

लये त्रिलोक्या अपि पूरणत्वा
त्प्रायोऽम्बिकायास्त्रिपुरेति नाम।।8.2।।

व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य

द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः।

अन्यद्द्यु शीतकरपावकमन्वमन्तै
र्बीजैरमीभिरुदिता त्रिपुरेति विद्या।।8.3।।

वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं

त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम्।

शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत
त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम्।।8.4।।

नाभेरथाचरणमाहृदयाच्च नाभिं

मूर्ध्नस्तथा हृदयमित्यमुना क्रमेण।

बीजैस्त्रिभिर्न्यसतु हस्ततले च सव्ये
दक्षाह्वये द्वितयमप्युभये तृतीयम्।।8.5।।

मूर्धनि गुह्यहृदोरपि

नेत्रत्रितये च कर्णयोरास्ये।

अंसद्वये च पृष्ठे
कूर्परयोर्नाभिमण्डले न्यस्येत्।।8.6।।

वाग्भवेन पुनरङ्गुलीष्वथो

विन्यसेच्च पुनरुक्तमार्गतः।

अङ्गषट्कममुना विधाय त
द्देवतां विशदधीर्विचिन्तयेत्।।8.7।।

आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां

देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम्।

पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पङ्कराज
न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि।।8.8।।

दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्संप्रदायाद्गुरो

र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि।

स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले
मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि।।8.9।।

प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज

द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः।

आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां
भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम्।।8.10।।

वामादिशक्तिसहितं परिपूज्य पीठं

तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम्।

योनौ निधाय कलशं त्वथ मध्यगाया
मावाह्य तां भगवतीं प्रयजेत्क्रमेण।।8.11।।

वह्नेः पुरद्वितयवासवयोनिमध्य

संबद्धवह्निवरुणेशसमाश्रिताश्री।

देव्यर्चनाय विहितं मुनिभिः पुरैव
लोके सुदुर्लभमिदं नवयोनिचक्रम्।।8.12।।

वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा

ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा।

बह्वी चान्या स्याद्विषघ्नी च दूत
र्याह्वा सर्वानन्दका शक्तयः स्युः।।8.13।।

प्राङ्मध्ययोन्योः पुनरन्तराले

संपूजयेत्प्राग्गुरुपादपङ्क्तिम्।

पराभिधानामपराह्वयां च
परापराख्यामपि वाग्भवादिम्।।8.14।।

तेनैव चाङ्गानि विदिग्दिशासु

मन्त्री यथोक्तक्रमतः प्रपूज्य।

तन्मध्ययोनेरभितः शरांश्च
संपूजयेत्पञ्चममग्रभागे।।8.15।।

सुभगा भगा भगान्ते

सर्पिणि भगमालिनी अनङ्गाह्वा।

तत्पूर्वकुसुमसंज्ञा
तदादिके चाथ मेखलामदने।।8.16।।

संपूज्य योनिषु च मातृगणं सचण्डि

कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः।

तैर्भैरवैः सह सुगन्धसुपुष्पधूप
दीपादिकैर्भगवतीं प्रवरैर्निवेद्यैः।।8.17।।

असिताङ्गाख्यो रुरुरपि

चण्डः क्रोधाह्वयस्तथोन्मत्तः।

सकपालिभीषणाख्यः
संहारश्चाष्टभैरवाः कथिताः।।8.18।।

इति क्रमाप्त्या विहिताभिषेकः

संप्रीणयित्वा द्रविणैर्गुरुं च।

जप्त्वार्चयित्वोक्ततयाथ हुत्वा
युञ्जीत योगांश्च गुरूपदिष्टान्।।8.19।।

अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं

यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः।

काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी
मारार्त्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः।।8.20।।

रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो

मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम्।

बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने
योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च।।8.21।।

ससुरासुरसिद्धयक्ष

विद्याधरगन्धर्वभुजंगचारणानाम्।

प्रमदामदवेगतो विकीर्णा
भरणाः स्रस्तदुकूलकेशजालाः।।8.22।।

अतिदुःसहमन्मथव्यथाभिः

प्रथितान्तःपरितापवेपिताङ्ग्यः।

घनधर्म(?)जतोयबिन्दुमुक्ता
फलसक्तोरुकुचान्तबाहुमूलाः।।8.23।।

रोमाञ्चकञ्चुकितगात्रलताघनोद्य

दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः।

औत्सुक्यभारपृथुवेपथुखेदसन्न
पादारविन्दचलनस्खलनाभियाताः।।8.24।।

मारसायकनिपातदारिता

रागसागरनिमग्नमूर्तयः।

श्वासमारुततरङ्गिताधरा
बाष्पपूरभरविह्वलेक्षणाः।।8.25।।

मस्तकारचितदोर्द्वयाञ्जलि

प्राभृता हरिणशाबलोचनाः।

वाञ्छितार्थकरणोद्यताश्च त
द्दृष्टिपातमभि संनमन्ति ताः।।8.26।।

धरापवरके तथा जपतु लक्षमन्यं मनुं

सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी।

अमुष्य वदनादनारततयोच्चरेद्भारती
विचित्रपदपद्धतिर्भवति चास्य लोको वशे।।8.27।।

पलाशपुष्पैर्मधुरत्रयाक्तै

र्होमं विदध्यादयुतावधिं यः।

सरस्वतीमन्दिरमाशु भूया
त्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी।।8.28।।

राजीकरञ्जाह्वशमीवटोत्थैः

समिद्वरैर्बिल्वभवैः प्रसूनैः।

त्रिस्वादुयुक्तैर्हवनक्रियाशु
नरेन्द्रनारीनररञ्जनी स्यात्।।8.29।।

मालतीवकुलजैर्दलैर्दलै

श्चन्दनाम्भसि घने निमज्जितैः।

श्रीकरीकुसुमकैर्हुतक्रिया
सैव चासु कविताकरी मता।।8.30।।

अनुलोमविलोममन्त्रमध्य

स्थितसाध्याह्वयुतं प्रजप्य मन्त्री।

पटुसंयुतया जुहोतु राज्या
नरनारीनरपान्वशे विधातुम्।।8.31।।

मधुरत्रयेण सह विल्वजैः फलै

र्हवनक्रियाशु जनतानुरञ्जनी।

अपि सैव साधकसमृद्धिदायिनी
दिनशो विशिष्टकमलाकरी मता।।8.32।।

खण्डैः सुधालतोत्थै

स्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः।

सकलोपद्रवशान्त्यै
जरापमृत्युप्रणोदनाय वशी।।8.33।।

फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलै रक्तवाराहिपुष्पैः

प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः।

नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः
स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः सर्पिषा पायसेन।।8.34।।

मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा

मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या।

सद्यः संपूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री
ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः।।8.35।।

वह्ने(?)र्बिम्बद्वयपरिवृताधारसंस्थं समुद्य

द्बालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम्।

वाण्या स्वीयाद्वदनकुहरात्संततं निःसरन्त्या
ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै।।8.36।।

हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं

मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः।

ध्यायेन्मन्मथराजबीजमखिलब्रह्माण्डविक्षोभकं
राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत्।।8.37।।

मूर्ध्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं

संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम्।

ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता
नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री।।8.38।।

योनेः परिभ्रमितकुण्डलिरूपिणीं तां

रक्तामृतद्रवमुचा निजतेजसैव।

व्योमस्थलं सकलमप्यभिपूर्य तस्मि
न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च।।8.39।।

गुह्यस्थितं वा मदनस्य बीजं

जपारुणं रक्तसुधाः स्रवन्तम्।

विचिन्त्य तस्मिन्विनिवेश्य साध्यां
वशीकरोत्येव विदग्धलोकम्।।8.40।।

अन्त्यं बीजमथेन्दुकुन्दधवलं संचिन्त्य चित्ताम्बुजे

तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात्।

उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा
निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः।।8.41।।

संक्षेपतो निगदिता त्रिपुराभिधाना

विद्या सजापहवना सविधानपूजा।

सोपासना च सकलाभ्युदयप्रसिद्ध्यै
वाणीरमाप्तिविधये जगतो हिताय।।8.42।।

विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश

स्तद्वक्त्रादथ नूतनार्थविशदा वाणी सदा निःसरेत्।

संपत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा
तस्यासौ प्रतियाति सर्वमुनिभिः संप्रार्थनीयं पदम्।।8.43।।

मध्ये वद्यक्षरयोः

सदवदवाग्वक्षरा निचन्द्रयुगे।

प्रोक्ता दशाक्षरीयं
कण्वविराजौ च वागृषिप्रभवाः।।8.44।।

कश्रोत्रनयननासा

वदनान्धुगुदेषु विन्यसेद्वर्णान्।

स्वरपुटितैरथ हल्भिः
कुर्यादङ्गानि षट् क्रमान्मन्त्री।।8.45।।

अमलकमलसंस्था लेखिनीपुस्तकोद्य

त्करयुगलसरोजा कुन्दमन्दारगौरा।

धृतशशधरखण्डोल्लासिकोटीरचूडा
भवतु भवभयानां भङ्गिनी भारती वः।।8.46।।

अक्षरलक्षजपान्ते

जुहुयात्कमलैः सितैः पयोभ्यक्तैः।

त्रिमधुरयुतैः सुशुद्धै
रयुतं नियतात्मकस्तिलैरथ वा।।8.47।।

मातृकोक्तविधिनाक्षराम्बुजे

शक्तिभिश्च विनियुज्य पूर्ववत्।

पीठमन्त्रवचसा महेश्वरीं
पूजयेत्प्रथममङ्गमन्त्रकैः।।8.48।।

योगा सत्या विमला

ज्ञाना बुद्धिः स्मृतिस्तथा मेधा।

प्रज्ञेत्याभिर्मातृभि
रपि लोकेशैः प्रपूजयेत्क्रमशः।।8.49।।

इति सिद्धमनुर्मनोजदूरो

नचिरादेव कविर्भवेन्मनस्वी।

जपहोमरतः सदावगच्छे
द्वनितां वागधिपेति गौरवेण।।8.50।।

न्यासान्वितो निशितधीः प्रजपेत्सहस्र

मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः।

तन्मन्त्रिताः पुनरयत्नत एव वाचः।
सिद्धिर्भवेदभिमता परिवत्सरेण।।8.51।।

हृदयद्वयसे स्थितोऽथ तोये

रविबिम्बे प्रतिपद्य वागधीशाम्।

जपतस्त्रिसहस्रसंख्यमर्वा
क्कविता मण्डलतो भवेत्प्रभूता।।8.52।।

पलाशबिल्वप्रसवैस्तयोश्च

समिद्वरैः स्वादुयुतैश्च होमः।

कवित्वसौभाग्यकरः समृद्ध
लक्ष्मीप्रदो रञ्जनकृच्चिराय।।8.53।।

चतुरङ्गुलजैः समित्प्रसूनै

र्जुहुयाद्यो मधुरत्रयावसिक्तैः।

मनुजः समवाप्य धीविलासा
नचिरात्काव्यकृतां भवेत्पुरोगः।।8.54।।

सुविमलनखदन्तपाणिपादो

मुदितमनाः परदूषणेषु मौनी।

हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः।।8.55।।

आद्यन्तप्रणवगशक्तिमध्यसंस्था

वाग्भूयो भवति सरस्वतीचडेन्ता।

नत्यन्तो मनुरयमीशसंख्यवर्णः
संप्रोक्तो भुवि भजमानपारिजातः।।8.56।।

स सुषुम्नाग्रे भ्रूयुग

मध्ये नवके तथैव रन्ध्राणाम्।

विन्यस्य मन्त्रवर्णा
न्कुर्यादङ्गानि षट् क्रमाद्वाचा।।8.57।।

हंसारूढा हरहसितहारेन्दुकुन्दावदाता

वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा।

विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात्।।8.58।।

दिनकरलक्षं प्रजपे

न्मन्त्रमिमं संयतेन्द्रियो मन्त्री।

द्वादशसहस्रकमथो
सितसरसिजनागचम्पकैर्जुहुयात्।।8.59।।

पूजायां पार्श्वयुगे

ससंस्कृता प्राकृता च वाग्देव्याः।

केवलवाङ्मयरूपा
संपूज्याङ्गैश्च शक्तिभिस्तदनु।।8.60।।

प्रज्ञा मेधा श्रुतिरपि

शक्तिः स्मृत्याह्वया च वागीशी।

सुमतिः स्वस्तिरिहाभि
र्मातृभिराशेश्वरैः क्रमात्प्रयजेत्।।8.61।।

इति निगदितो वागीश्वर्याः सहोमजपार्चना

विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते।

सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते
परमपरमां भक्तिं प्राप्योभयत्र च मोदते।।8.62।।

इति मातृकाविभेदा

न्प्रभजन्मन्त्रत्रयं च मन्त्रितमः।

प्रजपेदेनां स्तुतिमपि
दिनशो वाग्देव्यनुग्रहाय बुधः।।8.63।।

अमलकमलाधिवासिनि

मनसो वैमल्यदायिनि मनोज्ञे।

सुन्दरगात्रि सुशीले
तव चरणाम्भोरुहं नमामि सदा।।8.64।।

अचलात्मजा च दुर्गा

कमला त्रिपुरेति भेदिता जगति।

या सा त्वमेव वाचा
मीश्वरि सर्वात्मना प्रसीद मम।।8.65।।

त्वच्चरणाम्भोरुहयोः

प्रणामहीनः पुनर्द्विजातिरपि।

भूयादनेडमूक
स्त्वद्भक्तो भवति देवि सर्वज्ञः।।8.66।।

मूलाधारमुखोद्गत

बिसतन्तुनिभप्रभाप्रभावतया।

विधृतलिपिव्राताहित
मुखकरचरणादिके प्रसीद मम।।8.67।।

वर्णतनोऽमृतवर्णे

नियतमनिर्वर्णितेऽपि योगीन्द्रैः।

निर्णीतिकरणदूरे
वर्णयितुं देवि देहि सामर्थ्यम्।।8.68।।

ससुरासुरमौलिलस

न्मणिप्रभादीपिताङ्घ्रियुगनलिने।

सकलागमस्वरूपे
सर्वेश्वरि संनिधिं विधेहि मयि।।8.69।।

पुस्तकजपवटहस्ते

वरदाभयचिह्नचारुबाहुलते।

कर्पूरामलदेहे
वागीश्वरि शोधयाशु मम चेतः।।8.70।।

क्षौमाम्बरपरिधाने

मुक्तामणिभूषणे मुदावासे।

स्मितचन्द्रिकाविकासित
मुखेन्दुबिम्बेऽम्बिके प्रसीद मम।।8.71।।

विद्यारूपेऽविद्या

नाशिनि विद्योतितेऽन्तरात्मविदाम्।

गद्यैः सपद्यजातै
राद्यैर्मुनिभिः स्तुते प्रसीद मम।।8.72।।

त्रिमुखि त्रयीस्वरूपे

त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे।

त्रीक्षणविलसितवक्त्रे
त्रिमूर्तिमूलात्मिके प्रसीद मम।।8.73।।

वेदात्मिके निरुक्त

ज्योतिर्व्याकरणकल्पशिक्षाभिः।

सच्छन्दोभिः संतत
क्लृप्तषडङ्गेन्द्रिये प्रसीद मम।।8.74।।

त्वच्चरणसरसिजन्म

स्थितिमहितधियां न लिप्यते दोषः।

भगवति भक्तिमतस्त्वयि
परमां परमेश्वरि प्रसीद मम।।8.75।।

बोधात्मिके बुधानां

हृदयाम्बुजचारुरङ्गनटनपरे।

भगवति भवभङ्गकरीं
भक्तिं भद्रार्थदे प्रसीद मम।।8.76।।

वागीशीस्तवमिति यो

जपार्चनाहवनवृत्तिषु प्रजपेत्।

स तु विमलचित्तवृत्ति
र्देहापदि नित्यशुद्धमेति पदम्।।8.77।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टमः पटलः।।