Comprehensive Texts

अथाक्षराणामधिदेवतायाः

समस्तबोधस्थितिदीपिकायाः।

अशेषदुःखप्रशमाय नृ़णां
वक्ष्येऽजपादेः प्रवरं विधानम्।।7.1।।

ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त

च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता।

आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि
र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च।।7.2।।

पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षो

देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम्।

अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि।।7.3।।

काननवृत्तद्व्यक्षि

श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये।

दोःपत्संध्यग्रेषु च
पार्श्वद्वयपृष्ठनाभिजठरेषु।।7.4।।

हृद्दोर्मूलापरगल

कक्षेषु हृदादिपाणिपादयुगे।

जठराननयोर्व्यापक
संज्ञा न्यस्येदथाक्षरान्क्रमशः।।7.5।।

संदीक्षितो विमलधीर्गुरुणानुशिष्टो

लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत्।

अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः
शुद्धैस्तिलैरभियजेद्दिनशोऽक्षरेशीम्।।7.6।।

व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्कर्णिकं

किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम्।

क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं
वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युंजयम्।।7.7।।

प्रविधाय पद्ममिति पीठमथो

कथितक्रमेण विधिनाभियजेत्।

नवभिश्च शक्तिभिरमुत्र समा
वरणैः समर्चयतु वर्णतनुम्।।7.8।।

मेधा प्रज्ञा प्रभा विद्या

धीर्धृतिस्मृतिबुद्धयः।

विद्येश्वरीति संप्रोक्ता
भारत्या नव शक्तयः।।7.9।।

अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा

न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान्।

मुख्यैर्ग्रन्थैः प्रवरकुसुमैर्धूपदीपैर्निवेद्यै
र्वर्णाञ्जापि यजतु दिनशो भारतीं भक्तिनम्रः।।7.10।।

ब्रह्माणी माहेशी

कौमारी वैष्णवी च वाराही।

इन्द्राणी चामुण्डी
समहालक्ष्मीति मातरः प्रोक्ताः।।7.11।।

वर्गस्वरयाद्यंशाः

क्रमेण कलधौतरजतताम्राः स्युः।

इति रचितं रुचकमिदं
साधकसर्वार्थदायि सततं स्यात्।।7.12।।

त्रिवारमम्भः परिजप्तमेतया

पिबेद्दिनादावपि विद्यया सुधीः।

अनेडमूकोऽपि कवित्वगर्वितः
परां च कीर्तिं लभतेऽर्कमासतः।।7.13।।

कमलोद्भवौषधिरसेव च या

पयसा च पक्वमथ सर्पिरपि।

अयुताभिजप्तममुना दिनशो
लिहतां कविर्भवति वत्सरतः।।7.14।।

वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा

प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम्।

स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो
नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते।।7.15।।

आधारोद्यच्छक्तिबिन्दूत्थिताया

वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः।

क्षाद्यान्तार्णान्पातयेद्वह्निसोम
प्रोतान्मन्त्री मुच्यते रोगजातैः।।7.16।।

विन्यासैरथ सजपैर्हुताशनाद्यै

र्ध्यानैश्च प्रभजति भारतीं नरो यः।

स श्रीमान्भवति च मङ्क्षु काव्यकर्ता
क्ष्वेलादीञ्जयति जरापमृत्युरोगान्।।7.17।।

कलाः कलानादभवा वदन्त्यजाः

कचादिवर्णानुभवाष्टतादिकान्।

पयादिकान्माक्षरजाश्च बिन्दुजाः
क्रमादनन्तावधिकास्तु षादिकान्।।7.18।।

कुर्यात्कलाभिराभि

र्मन्त्री दिनशस्तनौ तथा न्यासम्।

सांनिध्यकृत्समर्थः
प्रतिमाकलशादिषु प्रविज्ञेयः।।7.19।।

मन्त्रोद्धारविधाने

वर्णव्यत्यासक्लृप्तिरुद्दिष्टा।

आभिः श्रीकण्ठादि
प्रोक्तैर्वा नामभिर्विशेषज्ञैः।।7.20।।

अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्तिं

संस्मृत्य विष्णुमपि मन्त्रितमो यथावत्।

वर्णैर्न्यसेदपि पुरैव च केशवादि
मूर्त्या युतैर्वपुषि भक्तिभरावनम्रः।।7.21।।

रुद्रादीञ्छक्तियुतान्न्यस्ये

द्याद्यांस्त्वगादिधातुयुगान्।

श्रीकण्ठादौ विद्वा
न्वर्णान्प्राग्बीजसंयुतान्वापि।।7.22।।

सिन्दूरकाञ्चनसमोभयभागमर्ध

नारीश्वरं गिरिसुताहरभूषचिह्नम्।

पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै।।7.23।।

शक्त्या शक्तिश्रीभ्यां

शक्तिश्रीक्लीभिरन्वितैर्वर्णैः।

श्रीशक्तियुगशराद्यै
रथवाभिहितः समृद्धये न्यासः।।7.24।।

अथानया पञ्चविभेदभिन्नया

प्रपञ्चयागस्य विधिः प्रवक्ष्यते।

कृते तु यस्मिन्निह साधकोत्तमाः
प्रयान्ति निर्वाणपदं तदव्ययम्।।7.25।।

पूर्वं महागणपतिं स्वविधानसिद्ध

रूपं च साङ्गमपि सावरणं विचिन्त्य।

बीजेन संयुतमृचा प्रजपेत माला
मन्त्रं निजेष्टविधयेऽवहितो यथावत्।।7.26।।

स चतुश्चत्वारिंश

द्वारं बीजं तथैकवारमृचम्।

प्रजपेच्चतुरावृत्त्या
मालापूर्वं मनुं च मन्त्रितमः।।7.27।।

स मुनिश्छन्दोदैवत

मपि साङ्गं मातृकां च विन्यस्येत्।

प्रागभिहितेन विधिना
वारत्रितयं गृहांश्च सप्त तथा।।7.28।।

वदने च बाहुपाद

द्वितये जठरे च वक्षसि यथावत्।

अर्काद्यान्विन्यस्ये
त्क्रमेण मन्त्री स्वरादिवर्गेशान्।।7.29।।

तारश्च शक्तिरजपा परमात्मबीजं

वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः।

एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च
यागाह्वयो हुतविधिः सकलार्थदायी।।7.30।।

ब्रह्मा स्यादृषिरस्य

च्छन्दः परमान्विता च गायत्री।

सकलपदार्थसदर्थं
परिपूर्णं देवता परंज्योतिः।।7.31।।

जायाग्नेर्हृदयमथो शिरश्च सोऽहं

हंसात्मा त्वथ च शिखा स्वयं च वर्म।

ताराख्यं स्वमुदितमीक्षणं तथास्त्रं
प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम्।।7.32।।

अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू।
हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः।।7.33।।

साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते।
सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः।।7.34।।

करणात्मसमायुक्तः परमात्माह्वयो मनुः।

स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः।
वागादीन्द्रियसंभिन्नः सोऽयं पञ्चाक्षरात्मकः।।7.35।।

ब्रह्मा बृहत्तया स्या

त्परमपदेन प्रकाशितः प्रवरः।

गायकसंत्राणनतो
गायत्रं समुनिनिगदितं छन्दः।।7.36।।

परमन्यदतिशयं वा

ज्योतिस्तेजो निरूपितेऽन्यद्यत्।

अतिशायि च नितरामिति
कथितैवं देवता परंज्योतिः।।7.37।।

स्वेति स्वर्गः स्वेति चात्मा समुक्तो

हेत्याहुतिर्हेति विद्याद्गतिं च।

स्वर्गात्मावध्यातता धामशाखा
वह्नेर्जाया यत्र हूयेत सर्वम्।।7.38।।

स इति परततं परं तु तेज

स्त्वहमिति मय्युदिते मनोऽस्य यत्र।

तदिति सकलचित्प्रकाशरूपं
कथितमिदं शिरसोऽपि मन्त्रमेवम्।।7.39।।

हमिति प्रकाशितोऽहं

स इति च सकलप्रकाशनिर्वाणम्।

अतुलमनुष्णमशीतं
यत्तदितीत्थं प्रकाशितेह शिखा।।7.40।।

प्रतिमथ्य गुणत्रयानुबद्धं

सकलं स्थावरजङ्गमाभिपूर्णम्।

स्वगुणैर्निजबिन्दुसन्ततात्मा
खिललोकस्थितिवर्ममन्त्रमुक्तम्।।7.41।।

आद्यैस्त्रिभेदैस्तपनान्तिकैर्य

त्सृजत्यजस्रं जगतोऽस्य भावम्।

तेजस्तदेतन्मनुवर्यकस्य
नेत्रत्रयं सन्त उदाहरन्ति।।7.42।।

हृंकाराख्या धातु

र्हरणार्थे साधकानभीष्टानि।

संहरतीह यदेत
त्तेजोरूपं तदस्त्रमन्त्रं स्यात्।।7.43।।

यदा लिपिविहीनोऽयं तदात्माष्टाक्षरः स्मृतः।
एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम्।।7.44।।

प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः।
वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा।।7.45।।

मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु।
नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम्।।7.46।।

पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः।
ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम्।।7.47।।

स्मर्तव्याशेषलोकान्तर्वर्ति यत्तेज ऐश्वरम्।
ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र वर्तिनि।।7.48।।

ब्रह्मात्मभिर्महामन्त्रैर्ब्रह्मविद्भिः समाहितैः।
ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम्।।7.49।।

एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं

देहं तत्क्षरमक्षरे सुविशदे सर्वत्र वर्तिन्यथ।

हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं
भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत्।।7.50।।

शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा

श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः।

न्यासास्ते दशधा पृथङ् निगदिताः स्युर्ब्रह्मयागान्तिकाः
सर्वे साधकसिद्धिसाधनविधौ संकल्पकल्पद्रुमाः।।7.51।।

प्रपञ्चयागस्तु विशेषतो विप

त्प्रपञ्चसंसारविशेषयापकः।

परश्च नित्यं भजतामयत्नतः
परस्य चार्थस्य निवेदकस्तथा।।7.52।।

द्रव्यैर्यथा यैः क्रियते प्रपञ्च

यागक्रिया तानि तथैव संपत्।

यास्वप्यवस्थासु च ताश्च कृत्वा
प्राप्नोति यत्तत्कथयामि सर्वम्।।7.53।।

प्रोक्तक्रमेण विघ्ना

दिकमपि हुत्वा क्रमेण मन्त्रितमः।

एकावृत्त्या जुहुया
त्प्रपञ्चयागाह्वयं घृतेन ततः।।7.54।।

अश्वत्थोदुम्बरजाः

प्लक्षन्यग्रोधसंभवाः समिधः।

तिलसर्षपदौग्धघृता
न्यष्ट द्रव्याणि संप्रदिष्टानि।।7.55।।

एतैर्जुहोति नियुताधिकलक्षसंख्यं

मन्त्री ततोऽर्धमथवापि तदर्धकं यः।

स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा
योग्यां पुनः परतरां च परत्र याति।।7.56।।

एकद्विकत्रिकचतुष्कशताभिवृत्त्या

तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री।

क्षुद्रग्रहारिविषमज्वरभूतयक्ष
रक्षःपिशाचजनिते महति प्रकोपे।।7.57।।

द्वादशसहस्रमथवा

तद्द्विगुणं च चतुर्गुणं वाथ।

जुहुयात्क्षुद्रग्रहरिपु
विषमज्वरभूतसंभवे कोपे।।7.58।।

अयथाप्रतिपत्तिमन्त्रकाणां

प्रजपात्स्यादिह विस्मृतिर्नराणाम्।

शमयेदचिरात्सहस्रवृत्त्या
मतिमान्वस्तुभिरेभिरेव जुह्वन्।।7.59।।

एतैः सहस्रद्वितयाभिवृत्त्या

जुहोति यस्तु क्रमशो यथावत्।

जयेत्क्षणेनैव स विस्मृतीश्च
सापस्मृतीः शापभवांश्च दोषान्।।7.60।।

मधुरत्रयावसिक्तै

रेतैर्लक्षं जुहोति यो मन्त्री।

तस्य सुराधिपविभवो
महदृद्ध्या तृणलवायते नचिरात्।।7.61।।

लक्षं तदर्धकं वा

मधुरत्रयसंयुतैर्हुनेदेतैः।

अब्दत्रयादथार्वा
क्त्रिभुवनमखिलं वशे कुरुते।।7.62।।

वश्यादीन्यपि कर्मा

ण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः।

जुहुयात्कार्ये गुरुता
लाघवमभिवीक्ष्य योग्यपरिमाणम्।।7.63।।

लक्षं तिलानां जुहुयाद्यवानां

शान्त्यै श्रियेऽथो नलिनैश्च तावत्।

दौग्ध्येन पुष्ट्यै यशसे घृतेन
वश्याय जातीकुसुमैश्च लोणैः।।7.64।।

शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं

कृत्वाष्टोर्ध्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च।

न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो
नारीं वा वशमेति मङ्क्षु विधिना तेनैव लोणेन वा।।7.65।।

पञ्चाशदौषधिविपाचितपञ्चगव्य

जाते घृतेन शतवृत्ति हुनेद्धटाग्नौ।

तावत्प्रजप्य विधिनाभिसमर्च्य सिद्धं
भस्माददीत सकलाभ्युदयावहं तत्।।7.66।।

अनुदिनमनुलिंम्पेत्तेन किंचित्समद्या

त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च।

अनुततदुरितापस्मारभूतापमृत्यु
ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः।।7.67।।

एकादशार्धकणिकां वरकाञ्चनस्य

दद्यात्तदैव गुरवेऽथ सहस्रहोमे।

अर्धोर्ध्वपञ्चकणिका द्विकणा च सार्धा
स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव।।7.68।।

निजेप्सितं दिव्यजनैः सुरद्रुमा

त्समस्तमेव प्रतिलभ्यते यथा।

प्रपञ्चयागादपि साधकैस्तथा
करप्रचेयाः सकलार्थसंपदः।।7.69।।

अथ हितविधये विदुषां

वक्ष्ये प्राणाग्निहोत्रविहितविधिम्।

बद्ध्वा पद्मासनमृजु
कायो मन्त्री विशेत्पुरोवदनः।।7.70।।

शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं

प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः।

मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैर्ज्वलद्वह्निभिः
मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये।।7.71।।

मध्येन्द्रवरुणशशियम

दिग्गतानि क्रमेण कुण्डानि।

आवसथजसभ्याहवनी
यान्वाहार्यगार्हपत्यानि।।7.72।।

चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः

कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया।

स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा
त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः।।7.73।।

क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा

भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः।

सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा
मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः।।7.74।।

एतानि केतोरमृताकरारे

र्मन्दस्य रक्तस्य च भार्गवस्य।

गुरुज्ञसोमांशुमतां क्रमेण
नवानि रत्नानि विदुर्नवानाम्।।7.75।।

इत्येवं हुतविधिमन्वहं दिनादौ

ये सम्यग्विदधति मन्त्रिणः शतार्धम्।

ते रत्नैरपि कनकांशुकैः सधान्यैः
संपन्नाः सकलजगत्प्रिया भवन्ति।।7.76।।

अन्त्यशवर्गान्त्यासे

वामश्रवणान्यथावसथजाते।

असितपवर्गचतुर्थां
सूक्ष्माः सभ्याह्वये च सश्रोत्राः।।7.77।।।

हलयुतवर्गतृतीयौ

पराः सशान्तीश्च पश्चिमे वह्नौ।

भृगुरेफफादिपञ्चक
सद्यातिथिलोचनानि सव्येऽग्नौ।।7.78।।

मज्जात्वग्वर्गादिक

भौतिकभाराह्वयप्रतिष्ठांश्च।

गार्हपत्ये जुहुया
दित्युक्तं होमकर्मवर्णानाम्।।7.79।।

व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन

स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च।

याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो
मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा।।7.80।।

सतारशक्त्याद्यजपान्तमेवं

हुत्वा महात्माथ शतार्धसंख्यम्।

विन्यस्य तावच्च तथैव सूत्र
मात्राकृतिर्नित्यतनुश्च भूयात्।।7.81।।

कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर

च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः।

अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो
नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः।।7.82।।

अनुदिनममुना भजतां

विधिनाहारक्रियासु मन्त्रविदां।

प्राणाद्याः स्युर्मरुतो
गार्हपत्यादिकानि कुण्डानि।।7.83।।

सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि।
हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत्।।7.84।।

ससुप्रभाभिः सहिताः शुचयः पावका इति।
अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च।।7.85।।

ऊर्ध्वाधस्तिर्यगूर्ध्वाधस्तिर्यक्सममथो वदेत्।
गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः।।7.86।।

हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः।
गार्हपत्यादिकं भूय उपचर्यान्तमेव च।।7.87।।

मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः।
बहुरूपां तु संकल्प्य पञ्चानलशिखायुताम्।।7.88।।

अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम्।
पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः।।7.89।।

तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः।
आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत्।।7.90।।

क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं

व्याप्तद्विसप्तभुवनान्तमनन्तमेकम्।

पञ्चाननाग्निरसनापरिदत्तशुद्ध
सांनाय्यतर्पितमतर्कितमात्मरूपम्।।7.91।।

संचिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि

स्तैर्जप्त्वा कुटिलान्तराधिरधिकं संदीप्तपञ्चानलः।

सायंप्रातरनेन होमविधिना भोज्यानि नित्यं भज
न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः।।7.92।।

इति तव सषडङ्गवेदशास्त्रा

द्युपहितसर्वविकारसंघमाहुः।

तनुरियमुदिता विरिञ्चविश्व
स्थितिलयसृष्टिकरीह वर्णमाला।।7.93।।

इति जगदनुषक्तां तामिमां वर्णमालां

न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत।

निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै
सकलदुरितरोगोच्छित्तये मुक्तये च।।7.94।।

इतीरिता सकलजगत्प्रभाविनी

क्रमोत्क्रमक्रमगुणितार्णमालिका।

अभीष्टसाधनविधये च मन्त्रिणां
भवेन्मनुप्रतिपुटिताक्षमालिका।।7.95।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे सप्तमः पटलः।।