Preliminary Texts

।।श्रीः।।
।।शतश्लोकी।।
दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः

स्पर्शश्चेत्तत्र कल्प्यः स नयति यदहो स्वर्णतामश्मसारम्।

न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये
स्वीयं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि।।1।।

यद्वच्छ्रीखण्डवृक्षप्रसृतपरिमलेनाभितोऽन्येऽपि वृक्षाः

शश्वत्सौगन्ध्यभाजोऽप्यतनुतनुभृतां तापमुन्मूलयन्ति।

आचार्याल्लब्धबोधा अपि विधिवशतः संनिधौ संस्थितानां
त्रेधा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति।।2।।

आत्मानात्मप्रतीतिः प्रथममभिहिता सत्यमिथ्यात्वयोगा

द्द्वेधा ब्रह्मप्रतीतिर्निगमनिगदिता स्वानुभूत्योपपत्त्या।

आद्या देहानुबन्धाद्भवति तदपरा सा च सर्वात्मकत्वा
दादौ ब्रह्माहमस्मीत्यनुभव उदिते खल्विदं ब्रह्म पश्चात्।।3।।

आत्मा चिद्वित्सुखात्मानुभवपरिचितः सर्वदेहादियन्ता

सत्येवं मूढबुद्धिर्भजति ननु जनोऽनित्यदेहात्मबुद्धिम्।

बाह्योऽस्थिस्नायुमज्जापलरुधिरवसाचर्ममेदोयुगन्त
र्विण्मूत्रश्लेष्मपूर्णं स्वपरवपुरहो संविदित्वापि भूयः।।4।।

देहस्त्रीपुत्रमित्रानुचरहयवृषास्तोषहेतुर्ममेत्थं

सर्वे स्वायुर्नयन्ति प्रथितमलममी मांसमीमांसयेह।

एते जीवन्ति येन व्यवहृतिपटवो येन सौभाग्यभाज
स्तं प्राणाधीशमन्तर्गतममृतममुं नैव मीमांसयन्ति।।5।।

कश्चित्कीटः कथंचित्पटुमतिरभितः कण्टकानां कुटीरं

कुर्वंस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः।

तद्वज्जीवोऽपि नानाचरितसमुदितैः कर्मभिः स्थूलदेहं
निर्मायात्रैव तिष्ठन्ननुदिनममुना साकमभ्येति भूमौ।।6।।

स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतये भीषयन्यश्च मुग्धा

न्मत्वा व्याघ्रोऽहमित्थं स नरपशुमुखान्बाधते किं नु सत्त्वान्।

मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते कि नटो भर्तुरिच्छां
तद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी।।7।।

स्वं बालं रोदमानं चिरतरसमयं शान्तिमानेतुमग्रे

द्राक्षं खार्जूरमाम्रं सुकदलमथवा योजयत्यम्बिकास्य।

तद्वच्चेतोऽतिमूढं बहुजननभवान्मौढ्यसंस्कारयोगा
द्बोधोपायैरनेकैरवशमुपनिषद्बोधयामास सम्यक्।।8।।

यत्प्रीत्या प्रीतिमात्रं तनुयुवतितनूजार्थमुख्यं स तस्मा

त्प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात्।

भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं
स्तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत्।।9।।

यस्माद्यावत्प्रियं स्यादिह हि विषयतस्तावदस्मिन्प्रियत्वं

यावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम्।

नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्या
त्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु।।10।।

श्रेयः प्रेयश्च लोके द्विविधमभिहितं काम्यमात्यन्तिकं च

काम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः।

ब्रह्मैवात्यन्तिकं यन्निरतिशयसुखस्यास्पदं संश्रयन्ते
तत्त्वज्ञास्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम्।।11।।

आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः

संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ।

दृष्टोऽस्म्यात्मावलोकादिति शयनविधौ मग्न आनन्दसिन्धा
वन्तर्निष्ठो मुमुक्षुः स खलु तनुभृता यो नयत्येवमायुः।।12।।

वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्या

दन्तःस्थप्राणमुख्यात्प्रचलति च पुनर्वेत्ति सर्वान्पदार्थान्।

नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णः
साक्षादित्थं विजानन्व्यहरति परात्मानुसंधानपूर्वम्।।13।।

नैर्वेद्यं ज्ञानगर्भ द्विविधमभिहितं तत्र वैराग्यमाद्यं

प्रायो दुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेः।

अन्यज्ज्ञानोपदेशाद्यदुदितविषये वान्तवद्धेयता स्या
त्प्रव्रज्यापि द्विधा स्यान्नियमितमनसा देहतो गेहतश्च।।14।।

यः कश्चित्सौख्यहेतोस्त्रिजगति यतते नैव दुःखस्य हेतो

र्देहेऽहता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे।

जानन्रोगाभिघाताद्यनुभवति यतो नित्यदेहात्मबुद्धि
र्भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे।।15।।

तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु

र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः।

आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः।।16।।

शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्रजन्स्वीयगेहा

च्छायां मार्गद्रुमोत्थां पथिक इव मनाक् संश्रयेद्देहसंस्थाम्।

क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्षमन्नं
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहतोऽपि।।17।।

कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं

तद्गृह्णातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च।

प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्या
त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगात्।।18।।

दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाक्रोधसंज्ञा

श्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसंज्ञं चतुष्कम्।

तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भि
स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम्।।19।।

अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं

यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य।

लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्या
त्त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः।।20।।

लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय

यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः।

सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात्।।21।।

स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तो

जीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्रबोधे।

विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्व
च्छुक्तो रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात्।।22।।

तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नो सदासी

त्किं त्वाभ्यामन्यदासीद्व्यवहृतिगतिसन्नास लोकस्तदानीम्।

किं त्वर्वागेव शुक्तौ रजतवदपरो नो विराड् व्योमपूर्वः
शर्मण्यात्मन्यथैतत्कुहकसलिलवत्किं भवेदावरीवः।।23।।

बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासी

द्यद्वद्रात्रिर्दिनं वा न भवति तरणौ किं तु दृग्दोष एषः।

अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसंज्ञं
तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव।।24।।

प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यं

क्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य।

कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः संप्रवृत्ता
द्रेतोरूपैर्मनोभिः प्रथममनुगतैः संततैः कार्यमाणैः।।25।।

चत्वारोऽस्याः कपर्दा युवतिरथ भवेन्नूतना नित्यमेषा

माया वा पेशला स्यादघटनघटनापाटवं याति यस्मात्।

स्यादारम्भे घृतास्या श्रुतिभववयुनान्येवमाच्छादयन्ती
तस्यामेतौ सुपर्णाविव परपुरुषौ तिष्ठतोऽर्थप्रतीत्या।।26।।

एकस्तत्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टो

विस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत्।

बुद्ध्यान्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक
स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः।।27।।

नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले

यत्सोऽखण्डोऽस्ति लैङ्गं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक्।

तत्कार्श्यं स्थूलतां वा न भजति वपुषः किंतु संस्कारजाते
तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैः सहैव।।28।।

आसीत्पूर्वं सुबन्धुर्भृशमवनिसुरो यः पुरोधाः सनाते

र्ब्राह्म्यात्कूटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम्।

तद्भ्राता श्रौतमन्त्रैः पुनरनयदिति प्राह सूक्तेन वेद
स्तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा।।29।।

एको निष्कम्प आत्मा प्रचलति मनसा धावमानेन तस्मिं

स्तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः।

यद्वत्पाथस्तरङ्गैः प्रचलति परितो धावमानैस्तदन्तः
प्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत्।।30।।

एकाक्यासीत्स पूर्वं मृगयति विषयानानुपूर्व्यान्तरात्मा

जाया मे स्यात्प्रजा वा धनमुपकरण कर्म कुर्वस्तदर्थम्।

क्लेशैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय
स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याकृतार्थः।।31।।

नासीत्पूर्वं न पश्चादतनुदिनकराच्छादको वारिवाहो

दृश्यः किं त्वन्तरासौ स्थगयति स दृशं पश्यतो नार्कबिम्बम्।

नो चेदेवं विनार्कं जलधरपटलं भासते तर्हि कस्मा
त्तद्वद्विश्वं पिधत्ते दृशमथ न परं भासकं चालकं स्वम्।।32।।

भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयो

राज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः।

स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायी
तद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेच्चेत्।।33।।

स्वप्नावस्थानुभूतं शुभमथ विषमं तन्मृषा जागरे स्या

ज्जाग्रत्यां स्थूलदेहव्यवहृतिविषयं तन्मृषा स्वापकाले।

इत्थं मिथ्यात्वसिद्धावनिशमुभयथा सज्जते तत्र मूढः
सत्ये तद्भासकेऽस्मिन्निह हि कुत इदं तन्न विद्मो वयं हि।।34।।

जीवन्तं जाग्रतीह स्वजनमथ मृतं स्वप्नकाले निरीक्ष्य

निर्वेदं यात्यकस्मान्मृतममृतममुं वीक्ष्य हर्षं प्रयाति।

स्मृत्वाप्येतस्य जन्तोर्निधनमसुयुतिं भाषते तेन साकं
सत्येवं भाति भूयोऽल्पकसमयवशात्सत्यता वा मृषात्वम्।।35।।

स्वाप्नस्त्रीसङ्गसौख्यादपि भृशमसतो या च रेतश्च्युतिः स्या

त्सा दृश्या तद्वदेतत्स्फुरति जगदसत्कारणं सत्यकल्पम्।

स्वप्ने सत्यः पुमान्स्याद्युवतिरिह मृषैवानयोः संयुतिश्च
प्रातः शुक्रेण वस्त्रोपहतिरिति यतः कल्पनामूलमेतत्।।36।।

पश्यन्त्याराममस्य प्रतिदिवसममी जन्तवः स्वापकाले

पश्यत्येनं न कश्चित्करणगणमृते मायया क्रीडमानम्।

जाग्रत्यर्थव्रजानामथ च तनुभृतां भासकं चालकं वा
नो जानीते सुषुप्तौ परमसुखमयं कश्चिदाश्चर्यमेतत्।।37।।

स्वप्ने मन्त्रोपदेशः श्रवणपरिचितः सत्य एष प्रबोधे

स्वाप्नादेव प्रसादादभिलषितफलं सत्यतां प्रातरेति।

सत्यप्राप्तिस्त्वसत्यादपि भवति तथा किं च तत्स्वप्रकाशं
येनेदं भाति सर्वं चरमचरमथोच्चावचं दृश्यजातम्।।38।।

मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्त्यग्निसूर्यादयोऽमी

वागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः।

तेभ्यो दृश्यावभासो भ्रम इति विदितः शुक्तिकारौप्यकल्पः
प्राणायामव्रतं तच्छ्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत्।।39।।

नोऽकस्मादार्द्रमेधः स्पृशति च दहनः किं तु शुष्कं निदाघा

दार्द्रं चेतोऽनुबन्धैः कृतसुकृतमपि स्वोक्तकर्मप्रजार्थैः।

तद्वज्ज्ञानाग्निरेतत्स्पृशति न सहसा किं तु वैराग्यशुष्कं
तस्माच्छुद्धो विरागः प्रथममभिहितस्तेन विज्ञानसिद्धिः।।40।।

यत्किञ्चिन्नामरूपात्मकमिदमसदेवोदितं भाति भूमौ

येनानेकप्रकारैर्व्यवहरति जगद्येन तेनेश्वरेण।

तद्वत्प्रच्छादनीयं निभृतरशनया यद्वदेष द्विजिह्व
स्तेन त्यक्तेन भोज्यं सुखमनतिशयं मा गृधोऽन्यद्धनाद्यम्।।41।।

जीवन्मुक्तिर्मुमुक्षोः प्रथममथ ततो मुक्तिरात्यन्तिकी च

तेऽभ्यासज्ञानयोगाद्गुरुचरणकृपापाङ्गसङ्गेन लब्धात्।

अभ्यासोऽपि द्विधा स्यादधिकरणवशाद्दैहिको मानसश्च
शारीरस्त्वासनाद्यो ह्युपरतिरपरो ज्ञानयोगः पुरोक्तः।।42।।

सर्वानुन्मूल्य कामान्हृदि कृतनिलयान्क्षिप्तशङ्कूनिवोच्चै

र्दीर्यद्देहाभिमानस्त्यजति चपलतामात्मदत्तावधानः।

यात्यूर्ध्वस्थानमुच्चैः कृतसुकृतभरो नाडिकाभिर्विचित्रं
नीलश्वेतारुणाभिः स्रवदमृतभरं गृह्यमाणात्मसौख्यः।।43।।

प्रापश्यद्विश्वमात्मेत्ययमिह पुरुषः शोकमोहाद्यतीतः

शुक्रं ब्रह्माध्यगच्छत्स खलु सकलवित्सर्वसिद्ध्यास्पदं हि।

विस्मृत्य स्थूलसूक्ष्मप्रभृतिवपुरसौ सर्वसंकल्पशून्यो
जीवन्मुक्तस्तुरीयं पदमधिगतवान्पुण्यपापैर्विहीनः।।44।।

यः सत्त्वाकारवृत्तौ प्रतिफलति युवा देहमात्रावृतोऽपि

तद्धर्मैर्बाल्यवाद्ध्र्यादिभिरनुपहतः प्राण आविर्बभूव।

श्रेयान्साध्यस्तमेतं सुनिपुणमतयः सत्यसंकल्पभाजो
ह्यभ्यासाद्देवयन्तः परिणतमनसा साकमूर्ध्वं नयन्ति।।45।।

प्रायोऽकामोऽस्तकामो निरतिशयसुखायात्मकामस्तदासौ

तत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्य देहावसाने।

प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानीं
क्वायं जीवो विलीनो लवणमिव जलेऽखण्ड आत्मैव पश्चात्।।46।।

पिण्डीभूतं यदन्तर्जलनिधिसलिलं याति तत्सैन्धवाख्यं

भूयः प्रक्षिप्तमस्मिन्विलयमुपगतं नामरूपे जहाति।

प्राज्ञस्तद्वत्परात्मन्यथ भजति लयं तस्य चेतो हिमांशौ
वागग्नौ चक्षुरर्के पयसि पुनरसृग्रेतसी दिक्षु कर्णौ।।47।।

क्षीरान्तर्यद्वदाज्यं मधुरिमविदितं तत्पृथग्भूतमस्मा

द्भूतेषु ब्रह्म तद्वद्व्यवहृतिविदितं श्रान्तविश्रान्तिबीजम्।

यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीतिः
सान्द्रानन्दं यदन्तः स्फुरति तदमृतं विद्ध्यतो ह्यन्यदार्तम्।।48।।

ओतः प्रोतश्च तन्तुष्विह विततपटश्चित्रवर्णेषु चित्र

स्तस्मिञ्जिज्ञास्यमाने ननु भवति पटः सूत्रमात्रावशेषः।

तद्वद्विश्वं विचित्रं नगनगरनरग्रामपश्वादिरूपं
प्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम्।।49।।

रूपं रूपं प्रतीदं प्रतिफलनवशात्प्रातिरूप्यं प्रपेदे

ह्येको द्रष्टा द्वितीयो भवति च सलिले सर्वतोऽनन्तरूपः।

इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मा
ज्जीवत्वं यात्यकस्मादतिविमलतरे बिम्बितं बुद्ध्युपाधौ।।50।।

तज्ज्ञाः पश्यन्ति बुद्ध्या परमबलवतो माययाक्तं पतङ्गं

बुद्धावन्तःसमुद्रे प्रतिफलितमरीच्यास्पदं वेधसस्तम्।

यादृग्यावानुपाधिः प्रतिफलति तथा ब्रह्म तस्मिन्यथास्यं
प्राप्तादर्शानुरूपं प्रतिफलति यथावस्थितं सत्सदैव।।51।।

एको भानुस्तदस्थः प्रतिफलनवशाद्यस्त्वनेकोदकान्त

र्नानात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत्परात्मा।

भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा
वच्छिन्नो यः परं तु स्फुटमनुपहतो भाति तावत्स्वभावैः।।52।।

यद्वत्पीयूषरश्मौ दिनकरकिरणैर्बिम्बितैरेति सान्द्रं

नाशं नैशं तमिस्रं गृहगतमथवा मूर्छितैः कांस्यपात्रे।

तद्वद्बुद्धौ परात्मद्युतिभिरनुपदं बिम्बिताभिः समन्ता
द्भासन्ते हीन्द्रियास्यप्रसृतिभिरनिशं रूपमुख्याः पदार्थाः।।53।।

पूर्णात्मानात्मभेदात्ित्रविधमिह परं बुद्ध्यवच्छिन्नमन्य

त्तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति।

अम्भोवच्छिन्नमस्मिन्प्रतिफलितमतः पाथसोन्तर्बहिश्च
पूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव।।54।।

दृश्यन्ते दारुनार्यो युगपदगणिताः स्तम्भसूत्रप्रयुक्ताः

संगीतं दर्शयन्त्यो व्यवहृतिमपरां लोकसिद्धां च सर्वाम्।

सर्वत्रानुप्रविष्टादभिनवविभवाद्यावदर्थानुबन्धा
त्तद्वत्सूत्रात्मसंज्ञाद्व्यवहरति जगद्भूर्भुवःस्वर्महान्तम्।।55।।

तत्सत्यं यत्ित्रकालेष्वनुपहतमदः प्राणदिग्व्योममुख्यं

यस्मिन्विश्रान्तमास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम्।

नास्त्यन्यत्किंच यद्वत्परमधिकमतो नाम सत्यस्य सत्यं
सच्च त्यच्चेति मूर्ताद्युपहितमवरं सत्यमस्यापि सत्यम्।।56।।

यत्किञ्चिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पाम्बुमुख्यं

तद्वै सत्याश्रयेणेत्ययमिह नियमः सावधिर्लोकसिद्धः।

तद्वै सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासी
न्मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति।।57।।

यत्राकाशावकाशः कलयति च कलामात्रता यत्र कालो

यत्रैवाशावसानं बृहदिह हि विराट् पूर्वमर्वागिवास्ते।

सूत्रं यत्राविरासीन्महदपि महतस्तद्धि पूर्णाच्च पूर्णं
संपूर्णादर्णवादेरपि भवति यथा पूर्णमेकार्णवाम्भः।।58।।

अन्तः सर्वौषधीनां पृथगमितरसैर्गन्धवीर्यैर्विपाकै

रेकं पाथोदपाथः परिणमति यथा तद्वदेवान्तरात्मा।

नानाभूतस्वभावैर्वहति वसुमती येन विश्वं पयोदो
वर्षत्युच्चैर्हुताशः पचति दहति वा येन सर्वान्तरोऽसौ।।59।।

भूतेष्वात्मानमात्मन्यनुगतमखिलं भूतजातं प्रपश्ये

त्प्रायः पाथस्तरङ्गान्वयवदथ चिरं सर्वमात्मैव पश्येत्।

एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानास्ति किं चि
न्मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत्।।60।।

प्राक्पश्चादस्ति कुम्भाद्गगनमिदमिति प्रत्यये सत्यपीदं

कुम्भोत्पत्तावुदेति प्रलयमुपगते नश्यतीत्यन्यदेशम्।

नीते कुम्भेन साकं व्रजति भजति वा तत्प्रमाणानुकारा
वित्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्वतस्तद्वदात्मा।।61।।

यावान्पिण्डो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावा

न्यावान्कर्पूरपिण्डः परिणमति सदामोद एवात्र तावान्।

विश्वं यावद्विभाति द्रुमनगनगरारामचैत्याभिरामं
तावच्चैतन्यमेकं प्रविकसति यतोऽन्ते तदात्मावशेषम्।।62।।

वाद्यान्नादानुभूतिर्यदपि तदपि सा नूनमाघातगम्या

वाद्याघातध्वनीनां न पृथगनुभवः किं तु तत्साहचर्यात्।

मायोपादानमेतत्सहचरितमिव ब्रह्मणाभाति तद्व
त्तस्मिन्प्रत्यक्प्रतीते न किमपि विषयीभावमाप्नोति यस्मात्।।63।।

दृष्टः साक्षादिदानीमिह खलु जगतामीश्वरः संविदात्मा

विज्ञातः स्थाणुरेको गगनवदभितः सर्वभूतान्तरात्मा।

दृष्टं ब्रह्मातिरिक्तं सकलमिदमसद्रूपमाभासमात्रं
शुद्धं ब्रह्माहमस्मीत्यविरतमधुनात्रैव तिष्ठेदनीहः।।64।।

इन्द्रेन्द्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्ति

स्तस्यामानन्दसान्द्रं पदमतिगहनं यत्स आनन्दकोशः।

तस्मिन्नो वेद किञ्चिन्निरतिशयसुखाभ्यन्तरे लीयमानो
दुःखी स्याद्बोधितः सन्निति कुशलमतिर्बोधयेन्नैव सुप्तम्।।65।।

सर्वे नन्दन्ति जीवा अधिगतयशसा गृह्णता चक्षुरादी

नन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः।

एतेषां किल्बिषस्पृग्जठरभृतिकृते यो बहिर्वृत्तिरास्ते
त्वक्चक्षुःश्रोत्रनासारसनवशमितो याति शोकं च मोहम्।।66।।

जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान्विधास्य

ञ्श्राम्यत्सर्वेन्द्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम्।

विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि
सुखं सर्वोत्तमं स्यात् परिणतिविरसादिन्द्रियोत्थात्सुखाच्च।।67।।

पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशं

लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य।

दुःसंकल्पैर्विकल्पैर्विषयमनु कदर्थीकृतं चित्तमेत
त्खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान्प्रसार्य।।68।।

आश्लिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यं

यद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम्।

यात्यस्तं तत्र लोकव्यवहृतिरखिला पुण्यपापानुबन्धः
शोको मोहो भयं वा समविषममिदं न स्मरत्येव किंचित्।।69।।

अल्पानल्पप्रपञ्चप्रलय उपरतिश्चेन्द्रियाणां सुखाप्ति

र्जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किं तु तत्रास्ति भेदः।

प्राक्संस्कारात्प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धो
नश्यत्संस्कारजातो न स किल पुनरावर्तते यश्च मुक्तः।।70।।

आनन्दान्यश्च सर्वाननुभवति नृपः सर्वसंपत्समृद्ध

स्तस्यानन्दः स एकः स खलु शतगुणः सन्प्रदिष्टः पितृ़णाम्।

आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्यु
र्ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति।।71।।

यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एते

यत्राप्ताः सर्वकामाः स्युरखिलविरमात्केवलीभाव आस्ते।

मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोमपीयूषपूर्णां
धारामिन्द्राय देहीत्यपि निगमगिरो भ्रूयुगान्तर्गताय।।72।।

आत्माकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती

स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन्।

चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धि
स्तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव।।73।।

यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्या

त्स्थैर्यं यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ।

नित्यानन्दः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यं
नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम्।।74।।

श्रान्तं स्वान्तं स बाह्यव्यवहृतिभिरिदं ताः समाकृष्य सर्वा

स्तत्तत्संस्कारयुक्तं ह्युपरमति परावृत्तमिच्छन्निदानम्।

स्वाप्नान्संस्कारजातप्रजनितविषयान्स्वाप्नदेहेऽनुभूता
न्प्रोज्झ्यान्तः प्रत्यगात्मप्रवणमिदमगाद्भूरि विश्राममस्मिन्।।75।।

स्वप्ने भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमाने

स्वाप्नं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत्।

तत्सामग्र्या अभावात्कुत इदमुदितं तद्धि सांकल्पिकं चे
त्तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः।।76।।

भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मा

त्स्वप्नेऽप्यङ्गेऽनुबन्धं त्यजति न सहसा मूर्छितेऽप्यन्तरात्मा।

पूर्वं ये येऽनुभूतास्तनुयुवतिहयव्याघ्रदेशादयोऽर्था
स्तत्संस्कारस्वरूपान्सृजति पुनरमूञ्श्रित्य संस्कारदेहम्।।77।।

संधौ जाग्रत्सुषुप्त्योरनुभवविदिता स्वाप्न्यवस्था द्वितीया

तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि।

संवेष्य स्थूलदेहं समुचितशयने स्वीयभासान्तरात्मा
पश्यन्संस्काररूपानभिमतविषयान्याति कुत्रापि तद्वत्।।78।।

रक्षन्प्राणैः कुलायं निजशयनगतं श्वासमात्रावशेषै

र्मा भूत्तत्प्रेतकल्पाकृतिकमिति पुनः सारमेयादिभक्ष्यम्।

स्वप्ने स्वीयप्रभावात्सृजति हयरथान्निमग्नगाः पल्वलानि
क्री़डास्थानान्यनेकान्यपि सुहृदबलापुत्रमित्रानुकारान्।।79।।

मातङ्गव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचित्प्रेयसीभिः

क्रीडन्नास्ते हसन्वा विहरति कुहचिन्मृष्टमश्नाति चान्नम्।

म्लेच्छत्वं प्राप्तवानस्म्यहमिति कुहचिच्छङ्कितः स्वीयलोका
दास्ते व्याघ्रादिभीत्या प्रचलति कुहचिद्रोदिति ग्रस्यमानः।।80।।

यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्गतात्मस्वरूपा

विज्ञानोत्पद्यमानः स्फुरति ननु यथा शुक्तिकाज्ञानहेतुः।

रौप्याभासो मृषैव स्फुरति च किरणज्ञानतोऽम्भो भुजङ्गो
रज्ज्वज्ञानान्निमेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम्।।81।।

मायाध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मत्स्था

न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये।

शुक्त्यंशस्तेन भूतान्यपि मयि न वसन्तीति विष्वग्विनेता
प्राहास्माद्दृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम्।।82।।

हेतुः कर्मैव लोके सुखतदितरयोरेवमज्ञोऽविदित्वा

मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ।

यत्कर्मैवोचतुः प्राग्जनकनृपगृहे चक्रतुस्तत्प्रशंसां
वंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा।।83।।

वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणिनोद्यस्तथापि

प्रायोऽन्नं तृप्तिहेतुस्तदपि निगदितं कारणं भोक्तृयत्नः।

प्राचीनं कर्म तद्वद्विषमसमफलप्राप्तिहेतुस्तथापि
स्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेरकोऽस्यान्तरात्मा।।84।।

स्मृत्या लोकेषु वर्णाश्रमविहितमदो नित्यकाम्यादि कर्म

सर्वं ब्रह्मार्पणं स्यादिति निगमगिरः संगिरन्तेऽतिरम्यम्।

यन्नासानेत्रजिह्वाकरचरणशिरःश्रोत्रसंतर्पणेन
तुष्येदङ्गीव साक्षात्तरुरिव सकलो मूलसंतर्पणेन।।85।।

यः प्रैत्यात्मानभिज्ञः श्रुतिविदपि तथाकर्मकृत्कर्मणोऽस्य

नाशः स्यादल्पभोगात्पुनरवतरणे दुःखभोगो महीयान्।

आत्माभिज्ञस्य लिप्सोरपि भवति महाञ्शाश्वतः सिद्धिभोगो
ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः।।86।।

सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रं

सूर्यात्सूर्यप्रतीतिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात्।

अग्नेरग्नेश्च किं तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्ता
दात्मज्योतिस्ततोऽयं पुरुष इह महो देवतानां च चित्रम्।।87।।

प्राणेनाम्भांसि भूयः पिबति पुनरसावन्नमश्नाति तत्र

तत्पाकं जाठरोऽग्निस्तदुपहितबलो द्राक्छनैर्वा करोति।

व्यानः सर्वाङ्गनाडीष्वथ नयति रसं प्राणसंतर्पणार्थं
निःसारं पूतिगन्धं त्यजति बहिरयं देहतोऽपानसंज्ञः।।88।।

व्यापारं देहसंस्थः प्रतिवपुरखिलं पञ्चवृत्त्यात्मकोऽसौ

प्राणः सर्वेन्द्रियाणामधिपतिरनिशं सत्तया निर्विवादम्।

यस्येत्थं चिद्घनस्य स्फुटमिह कुरुते सोऽस्मि सर्वस्य साक्षी
प्राणस्य प्राण एषोऽप्यखिलतनुभृतां चक्षुषश्चक्षुरेषः।।89।।

यं भान्तं चिद्घनैकं क्षितिजलपवनादित्यचन्द्रादयो ये

भासा तस्यैव चानु प्रविरलगतयो भान्ति तस्मिन्वसन्ति।

विद्युत्पुञ्जोऽग्निसंघोऽप्युडुगणविततिर्भासयेत्किं परेशं
ज्योतिः शान्तं ह्यनन्तं कविमजममरं शाश्वतं जन्मशून्यम्।।90।।

तद्ब्रह्मैवाहमस्मीत्यनुभव उदितो यस्य कस्यापि चेद्वै

पुंसः श्रीसद्गुरूणामतुलितकरुणापूर्णपीयूषदृष्ट्या।

जीवन्मुक्तः स एव भ्रमविधुरमना निर्गतेऽनाद्युपाधौ
नित्यानन्दैकधाम प्रविशति परमं नष्टसंदेहवृत्तिः।।91।।

नो देहो नेन्द्रियाणि क्षरमतिचपलं नो मनो नैव बुद्धिः

प्राणो नैवाहमस्मीत्यखिलजडमिदं वस्तुजातं कथं स्याम्।

नाहंकारो न दारा गृहसुतसुजनक्षेत्रवित्तादि दूरं
साक्षी चित्प्रत्यगात्मा निखिलजगदधिष्ठानभूतः शिवोऽहम्।।92।।

दृश्यं यद्रूपमेतद्भवति च विशदं नीलपीताद्यनेकं

सर्वस्यैतस्य दृग्वै स्फुरदनुभवतो लोचनं चैकरूपम्।

तद्दृश्यं मानसं दृक्परिणतविषयाकारधीवृत्तयोऽपि
दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी।।93।।

रज्ज्वज्ञानाद्भुजङ्गस्तदुपरि सहसा भाति मन्दान्धकारे

स्वात्माज्ञानात्तथासौ भृशमसुखमभूदात्मनो जीवभावः।

आप्तोक्त्याहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथाहं
कूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम्।।94।।

किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादि रात्रौ

स्यादेवं भानुदीपादिकपरिकलने किं तव ज्योतिरस्ति।

चक्षुस्तन्मीलने किं भवति च सुतरां धीर्धियः किं प्रकाशे
तत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम्।।95।।

कंचित्कालं स्थितः कौ पुनरिह भजते नैव देहादिसंघं

यावत्प्रारब्धभोगं कथमपि स सुखं चेष्टतेऽसङ्गबुद्ध्या।

निर्द्वन्द्वो नित्यशुद्धो विगलितममताहंकृतिर्नित्यतृप्तो
ब्रह्मानन्दस्वरूपः स्थिरमतिरचलो निर्गताशेषमोहः।।96।।

जीवात्मब्रह्मभेदं दलयति सहसा यत्प्रकाशैकरूपं

विज्ञानं तच्च बुद्धौ समुदितमतुलं यस्य पुंसः पवित्रम्।

माया तेनैव तस्य क्षयमुपगमिता संसृतेः कारणं या
नष्टा सा कायकर्त्री पुनरपि भविता नैव विज्ञानमात्रात्।।97।।

विश्वं नेति प्रमाणाद्विगलितजगदाकारभानस्त्यजेद्वै

पीत्वा यद्वत्फलाम्भस्त्यजति च सुतरां तत्फलं सौरभाढ्यम्।

सम्यक्सच्चिद्घनैकामृतसुखकबलास्वादपूर्णो हृदासौ
ज्ञात्वा निःसारमेवं जगदखिलमिदं स्वप्रभः शान्तचित्तः।।98।।

क्षीयन्ते चास्य कर्माण्यपि खलु हृदयग्रन्थिरुद्भिद्यते वै

च्छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे।

तस्मिंश्चिन्मात्ररूपे गुणमलरहिते तत्त्वमस्यादिलक्ष्ये
कूटस्थे प्रत्यगात्मन्यखिलविधिमनोगोचरे ब्रह्मणीशे।।99।।

आदौ मध्ये तथान्ते जनिमृतिफलदं कर्ममूलं विशालं

ज्ञात्वा संसारवृक्षं भ्रममदमुदिताशोकतानेकपत्रम्।

कामक्रोधादिशाखं सुतपशुवनिताकन्यकापक्षिसंघं
छित्वासङ्गासिनैनं पटुमतिरभितश्चिन्तयेद्वासुदेवम्।।100।।

जातं मय्येव सर्व पुनरपि मयि तत्संस्थितं चैव विश्वं

सर्वं मय्येव याति प्रविलयमिति तद्ब्रह्म चैवाहमस्मि।

यस्य स्मृत्या च यज्ञाद्यखिलशुभविधौ सुप्रयातीह कार्यं
न्यूनं संपूर्णतां वै तमहमतिमुदैवाच्युतं संनतोऽस्मि।।101।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव़

त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ

शतश्लोकी समाप्ता।।