Preliminary Texts

।।प्रबोधसुधाकरः।।
।।देहनिंदाप्रकरणम्।।
नित्यानंदैकरसं सच्चिन्मात्रं स्वयंज्योतिः।
पुरुषोत्तममजमीशं वन्द्रे श्रीयादवाधीशम्।।1।।

यं वर्णयितुं साक्षाच्छ्रुतिरपि मूकेव मौनमाचरति।
सोऽस्माकं मनुजानां किं वाचां गोचरो भवति।।2।।

यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव।
अथ्यात्मशास्त्रसारैर्हरिचिंतनकीर्तनाभ्यासैः।।3।।

क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः।
पुंसो विना विरागं मुक्तेरधिकारिता न स्यात्।।4।।

वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम्।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता।।5।।

सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु।
तत्राहंता देहे ममता भार्यादिविषयेषु।।6।।

देहः किमात्मकोऽयं कः संबंधोऽस्य वा विषयैः।
एवं विचार्यमाणेऽहंताममते निवर्तते।।7।।

स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते।।8।।

मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम्।
जठराग्निज्वालाभिर्नवमासं पच्यते जंतुः।।9।।

दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति।
शस्त्रैर्विखंड्य स तदा बहिरिह निष्कास्यतेऽतिबलात्।।10।।

अथवा यंत्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः।।11।।

आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्र्यैः।
जन्मानंतरमपि यः क्लेशः किं शक्यते वक्तुम्।।12।।

नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम्।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुंक्ते।।13।।

चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः।
स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि।।14।।

आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम्।
एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या।।15।।

आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि।
तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः।।16।।

नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम्।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता।।17।।

सततं प्रवाह्यमानैर्वृषभरैश्वैः खरैर्गजैर्महिषैः।
हा कष्टं क्षुत्क्षामैः श्रांतैर्नो शक्यते वक्तुम्।।18।।

रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः।।19।।

नासाग्राद्वदनाद्वा कफं मलं पायुतो विसृजन्।
स्वयमेवैति जुगुप्सामंतः प्रसृतं च नो वेत्ति।।20।।

पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति।
नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः।।21।।

केशावधिनखराग्रादिदमंतः पूतिगंधसंपूर्णम्।
बहिरपि चागरुचंदनकर्पूराद्यैर्विलेपयति।।22।।

यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम्।
औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः।।23।।

क्षतमुत्पन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम्।
तत्रोत्पतन्ति बहवः कृमयो दुर्गंधसंकीर्णाः।।24।।

यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे।
संप्रति स रज्जुकाष्ठैर्नियंत्रितः क्षिप्यते वह्नौ।।25।।

सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम्।
तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति।।26।।

एवंविधोऽतिमलिनो देहो यत्सत्तया चलति।
तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन्।।27।।

क्वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः।
इति यो लज्जति धीमानितरशरीरं स किं मनुते।।28।।



विषयनिंदाप्रकरणम्।
मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या।
दूरदृष्टवृष्टिविरसो देहो गेहं पतत्येव।।29।।

भार्या रूपविहीना मनसः क्षोभाय जायते पुंसाम्।
अत्यंतं रूपाढ्या सा परपुरुषैर्वशीक्रियते।।30।।

यः कश्चित्परपुरुषो मित्रं भृत्योऽथवा भिक्षुः।
पश्यति हि साभिलाषं विलक्षणोदाररूपवतीम्।।31।।

यं कंचित्पुरुषवरं स्वभर्तुरतिसुंदरं दृष्ट्वा।
मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः।।32।।

एवं सुरूपनार्या भर्ता कोपात्प्रतिक्षणं क्षीणः।
नो लभते सुखलेशं बलिमिव बलिभुग्वबहुष्वेकः।।33।।

वनिता नितांतमज्ञा स्वाज्ञामुल्लंघ्य वर्तते यदि सा।
शत्रोरप्यधिकतरा पराभिलाषिण्यसौ किमुत।।34।।

लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः।
मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः।।35।।

सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति।
श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि।।36।।

तत्प्राप्त्युपायसत्त्वाद्द्वितीयपक्षेऽप्यपुत्रस्य।
पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम्।।37।।

नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्रः।
उत्पन्नमात्रपुत्रे जीवितचिंता गरीयसी तस्य।।38।।

जीवन्नपि किं मूर्खः प्राज्ञः किंवा सुशीलभाग्भविता।
जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः।।39।।

पितृमातृबंधुघाती मनसः खेदाय जायते पुत्रः।
चिंतयति तातनिधनं पुत्रो द्रव्याद्यधीशताहेतोः।।40।।

सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति।
सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि खेदाय।।41।।

पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम्।
इत्थं शरीरकष्टैर्दुःखं संप्रार्थ्यते मूढैः।।42।।

पितृमातृबंधुभगिनीपितृव्यजामातृमुख्यानाम्।
मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका।।43।।

दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च।
तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे।।44।।

अश्नन्ति चेदनुदिनं बंदिन इव वर्णयन्ति संतृप्ताः।
तच्चेद्द्वित्रदिनांतरमभिनिंदंतः प्रकुप्यन्ति।।45।।

दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम्।
लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम्।।46।।

लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थैः।
नृपचौरतोऽप्यनर्थस्तस्माद्द्रव्योद्यमो व्यर्थः।।47।।

अन्यायमर्थभाजं पश्यति भूतोऽध्वगामिनं चौरः।
पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम्।।48।।

पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः।
अश्वमतंगजहेतोः प्रतिक्षणं नाश्यते सोऽर्थः।।49।।

राज्यांतराभिगमनाद्रणभंगान्मंत्रिभृत्यदोषाद्वा।
विषशस्त्रगुप्तघातान्मग्नाश्चिंतार्णवे भूपाः।।50।।

मनोनिंदाप्रकरणम्।
हसति कदाचिद्रौति भ्रांतं सद्दश दिशो भ्रमति।
हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निंदति स्तौति।।51।।

किमपि द्वष्टि सरोषं ह्यात्मानं श्लाघते कदाचिदपि।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम्।।52।।

दंभाभिमानलोभैः कामक्रोधोरुमत्सरैश्चेतः।
आकृष्यते संमताच्छ्वभिरिव पतितास्थिवन्मार्गे।।53।।

तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम्।
तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति।।54।।

विषयनिग्रहप्रकरणम्।
संसृतिपारावरे ह्यगाधविषयोदकेन संपूर्णे।
नृशरीरमंबुतरणं कर्मसमीरैरितस्ततश्चलति।।55।।

छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः।
छिद्राणामनिरोधाज्जलपरिपूर्णं पतत्यधः सततम्।।56।।

छिद्राणां तु निरोधात्सुखेन पारं परं याति।
तस्मादिंद्रियनिग्रहमृते न कश्चित्तरत्यनृतम्।।57।।

पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते।
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति।।58।।

पिशुनैः प्रकाममुदितां परस्य निंदा शृणोति कर्णाभ्याम्।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति।।59।।

अनृतं परापवादं रसना वदति प्रतिक्षणं तेन।
परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति।।60।।

विषयेंद्रिययोर्योगे निमेषसमयेन यत्सुखं भवति।
विषये नष्टे दुःखं यावज्जीवं च तत्तयोर्मध्ये।।61।।

हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात्।
अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः।।62।।

धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते।
तद्वद्विषयान्भुंजन्कालाकृष्टो नरः पतति।।63।।

उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः।
एवं गतायुरपि सन्विषयान्समुपार्जयत्यंधः।।64।।

मनोनिग्रहप्रकरणम्।
स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम्।।65।।

एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदंतः।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति।।66।।

वर्षास्वंभःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम्।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्रांभः।।67।।

तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम्।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम्।।68।।

यं विषयमपि लषित्वा धावति बाह्येंद्रियद्वारा।
तस्याप्रातौ खिद्यति तथा यथा स्वं गतं किंचित्।।69।।

नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः।
यदि नो लभते विषयं विषयंत्रितमिव खिन्नमायाति।।70।।

तुंबीफलं जलांतर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम्।
तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति।।71।।

इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत्।
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति।।72।।

चेतः पशुमशुभपथं प्रधावमानं निराकर्तुम्।
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा।।73।।

निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात्।
न हि चेंद्रियप्रदेशावस्थानं चेतसो निद्रा।।74।।

अद्वारतुंगकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः।
बहुर्निगमप्रयत्नैः श्रांतस्तिष्ठति पतञ्श्वसंश्च तथा।।75।।

सर्वेंद्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य।
शांतं तिष्ठति चेतो निरुद्यमत्वं तदा याति।।76।।

प्राणस्पंदनिरोधात्सत्संगाद्वासनात्यागात्।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः।।77।।

वैराग्यप्रकरणं।
परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा।
कथितौ हर्षविषादौ किंवा स्यातां क्षणं स्थातुः।।78।।

दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा।
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत्।।79।।

ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः।
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि।।80।।

कुत्राप्यरण्यदेशे सुनीलतृणवालुकोपचिते।
शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य।।81।।

तरवः पत्रफलाढ्याः सुगंधशीतानिलाः परितः।
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः।।82।।

वैराग्यभाज्यभाजः प्रसन्नमनसो निराशस्य।
अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात्।।83।।

द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा

शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे।

स्वातंत्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं
संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते।।84।।

विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट

न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुलः।

वल्गन्फलगुषु सुप्रदीप्तनयनश्चेतःकुरंगो बला
दाशापाशवशीकृतोऽपि विषयव्याधैर्मृषा हन्यते।।85।।

आत्मसिद्धिप्रकरणम्।
उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात्।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम्।।86।।

यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्त्र।
तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम्।।87।।

त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र।
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति।।88।।

अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत्।
आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत्।।89।।

रसगंधरूपशब्दस्पर्शो अन्ये पदार्थाश्च।
कस्मादनुभूयन्ते नो देहान्नेंद्रियग्रामात्।।90।।

मृतदेहेंद्रियवर्गो यतो न जानाति दाहजं दुःखम्।
प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति।।91।।

मनसो यदि वा विषयस्तद्युगपत्किं न जानाति।
तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता।।92।।

गाढध्वांतगृहांततः क्षितितले दीपं निधायोज्ज्वलं

पंचच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत्।

तद्बाह्ये परितोऽनुरंध्रममलां वीणां च कस्तूरिकां
सद्रत्नं व्यजनं न्यसेच्च कलशच्छिद्राध्वनिर्गच्छताम्।।93।।

तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते

तद्रंध्रैः कलशेन वा किमु मृदो भांडेन तैलेन वा।

किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः।।94।।

मायासिद्धिप्रकरणम्।
चिन्मात्रः परमात्मा ह्यपश्यदात्मानमात्मतया।
अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम्।।95।।



द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै।
तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम्।।96।।

सोऽयमपीक्षांचक्रे ततो मनुष्या अजायन्त।
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या।।97।।

चिरमानंदानुभवात्सुषुप्तिरिव काप्यवस्थाऽभूत्।
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया।।98।।

सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम्।।99।।

माया तावददृश्या दृश्यं कार्यं कथं जनयेत्।
तंतुभिरदृश्यरूपैः परोऽत्र दृश्यः कथं भवति।।100।।

स्वप्ने सुरतानुभवाच्छुक्रद्रावो यथा शुभे वसने।
अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या।।101।।

स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा।
शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति।।102।।

एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम्।
माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति।।103।।

रजनीवातिदुरंता न लक्ष्यतेऽत्र स्वभावोऽस्याः।
सौदामिनीव नश्यति मुनिभिः संप्रेक्ष्यमाणैव।।104।।

माया ब्रह्मोपगताऽविद्या जीवाश्रया प्रोक्ता।
चिदचिद्ग्रंथिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात्।।105।।

घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति।
तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः।।106।।

ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य।
सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य।।107।।

दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः।
न खलु दीनस्य दिनत्वं तैर्विकृतैः सांद्रसंघातैः।।108।।

अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम्।
न परं तु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः।।109।।



लिंगदेहादिनिरूपणप्रकरणम्।
स्थूलशरीरस्यांतर्लिंगशरीरं च तस्यांतः।
कारणमस्याप्यंतस्ततो महाकारणं तुर्यम्।।110।।

स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः।
अंगुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम्।।111।।

सूक्ष्माणि महाभूतान्यसवः पंचेंद्रियाणि पंचैव।
षोडशमंतःकरणं तत्संघातो हि लिंगतनुः।।112।।

तत्कारणं स्मृतं यत्तस्यांतर्वासनाजालम्।
तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात्।।113।।

तत्सारभूतबुद्धौ यत्प्रतिफलितं तु शुद्धचैतन्यम्।
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि।।114।।

चरतरतरंगसंगात्प्रतिबिंबं भास्करस्य च चलं स्यात्।
अस्ति तथा चंचलता चैतन्ये चित्तचांचल्यात्।।115।।

नन्वर्कप्रतिबिंबः सलिलादिषु यः स चावभासयति।
किमितरपदार्थनिवहं प्रतिबिंबोऽप्यात्मनस्तद्वत्।।116।।

प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु।
तदनु प्रविष्टमंतर्गृहमन्यार्थान्प्रकाशयति।।117।।

चित्प्रतिबिंबस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः।
नेत्रादींद्रियमार्गैर्बहिरर्थान्सोऽवभासयति।।118।।

अद्वैतप्रकरणम्।
तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति।
स इदं सर्वं च स्यात्तस्य हि देवाश्च नेशते भूत्या।।119।।

येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः।
अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः।।120।।

इत्युपनिषदामुक्तिस्तथा श्रुतिभर्गवदुक्तिश्च।
ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि।।121।।

ऋजु वक्रं वा काष्ठं हुताशदग्धं सदग्नितां याति।
तत्किं हस्तग्राह्यं ऋजुवक्राकारसत्त्वेऽपि।।122।।



एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः।
देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा।।123।।

प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा।
तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु।।124।।

दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः।
प्रतिबिंबचंचलत्वादर्कः किं चंचलो भवति।।125।।

स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन।
तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति।।126।।

येनोदकेन कदलीचंपकजात्यादयः प्रवर्धन्ते।
मूलकपलांडुलशुनास्तेनैवैते विभिन्नरसगंधाः।।127।।

एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत्।
स्तंमाग्रपट्टिकायां नर्तयतीह प्रगूढतया।।128।।

गुडखंडशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः।
केयूरकंकणाद्या यथैकहेम्नो भिदाश्च पृथक्।।129।।

एवं पृथक्स्वभावं पृथगाकारं पृथग्वत्ति।
जगदुच्चावचमुच्चैरेकैनैवात्मना चलति।।130।।

स्कंधधृतसिद्धमन्नं यावन्नाश्नाति मार्गगस्तावत्।
स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवतः।।131।।

मानुषमतंगमहिषश्वसूकरादिष्वनुस्यूतम्।
यः पश्यति जगदीशं स एव भुंक्तेऽद्वयानंदम्।।132।।

कर्तृत्वभोक्तृत्वप्रकरणम्।
यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते।
तं न करोति विवस्वान्न कारयति तद्वदात्मापि।।133।।

लोहे हुतभुग्व्याप्ते लोहांतरताड्यमानेऽपि।
तस्यांतर्गतवह्नेः किं स्यान्निर्घातजं दुःखम्।।134।।

निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि।
अंतर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत्।।135।।

तनुसंबंधाज्जातैः सुखदुःखैर्लिप्यते नात्मा।
ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि।।136।।



निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति।
ईरयति वारयति वा तं दीपः किं तथात्मापि।।137।।

गेहांते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा।
दीपस्तुष्यत्यथवा खिद्यति किं तद्वदात्मापि।।138।।

स्वप्रकाशताप्रकरणम्।
रविचंद्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः।
यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा।।139।।

चक्षुद्वारैव स्यात्परात्मना भानमेतेषाम्।
यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात्।।140।।

तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा।
नो चेत्सत्यालोके पश्यत्यंधः कथं नार्थान्।।141।।

सत्यात्मन्यपि किं नो ज्ञानं तच्चेंद्रियांतरेण स्यात्।
अंधे दृक्प्रतिबंधे करसंबंधे पदार्थभानं हि।।142।।

जानाति येन सर्वं केन च तं वा विजानीयात्।
इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात्।।143।।

नादानुसंधानम्।
यावत्क्षणं क्षणार्धं स्वरूपपरिचिंतनं क्रियते।
तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः।।144।।

सिद्ध्यारंभस्थिरताविश्रमविश्वासबीजशुद्धीनाम्।
उपलक्षणं हि मनसः परमं नादानुसंधानम्।।145।।

भेरीमृदंगशंखाद्याहतनादे मनः क्षणं रमते।
किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखंडिते स्वच्छे।।146।।

चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम्।
वेणोरिव दीर्घतरस्तथा तता श्रूयते नादः।।147।।

नादाभ्यंतर्वर्ति ज्योतिर्यद्वर्तते हि चिरम्।
तत्र मनो लीनं चेन्न पुनः संसारबंधाय।।148।।

परमानंदानुभवात्सुचिरं नादानुसंधानात्।
श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु।।149।।


मनोलयः।
संसारतापतप्तं नानायोनिभ्रमात्परिश्रांतम्।
लब्ध्वा परमानंदं न चलति चेतः कदा क्वापि।।150।।

अद्वैतानंदभरात्किमिदं कोऽहं च कस्याहम्।
इति मंथरतां यातं यदा तदा मूर्छितं चेतः।।151।।

चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः।
सरिदिव सागरयाता समुद्राभावं प्रयात्युच्चैः।।152।।

आत्मन्यनुप्रविष्टं चित्तं नोपेक्षते पुनर्विषयान्।
क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह।।153।।

दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं स्यात्।
तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति।।154।।

याति स्वसंमुखत्वं दङ्मात्रं वा यदा तदा भवति।
दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति।।155।।

एकस्मिन्दृङमात्रे त्रेधा द्रष्टादिकं हि समुदेति।
त्रिविधे तस्मिंल्लीने दृङ्मात्रं शिष्यते पश्चात्।।156।।

दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति।
आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा।।157।।

प्रबोधः।
माधुर्यं गुडपिंडे यत्तत्तस्यांशकेऽणुमात्रेऽपि।
एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति।।158।।

अथवा न भिन्नभावः कर्पूरामोदयोरेवम्।
आत्मस्वरूपमनसां पुंसां जगदात्मतां याति।।159।।

यद्भावानुभवः स्यान्निद्रादौ जागरस्यांते।
अंतः स चेत्स्थिरः स्याल्लभते हि तदाऽद्वयानंदम्।।160।।

अतिगंभीरेऽपारे ज्ञानचिदानंदसागरे स्फारे।
कर्मसमीरणतरला जीवतरंगावलिः स्फुरति।।161।।

खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ।
स्फुरति मृषैव समंतादनेकविधजीवमृगतृष्णा।।162।।

अंतरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति।
दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम्।।163।।

बाह्याभ्यंतरपूर्णः परमानंदार्णवे निमग्नो यः।
चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः।।164।।

पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ।

संवित्स्फारसुधार्णवे विरहिते वीचीतरंगादिभिः।

भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे
स्वानंदैकरसे निमग्नमनसां न त्वं न चाहं जगत्।।165।।

द्विधाभक्तिः।
चित्ते सत्त्वोत्पत्तौ तडिदिव बोधोदयो भवति।
तर्ह्येव स स्थिरः स्याद्यदि चित्तं शुद्धिमुपयाति।।166।।

शुध्यति हि नांतरात्मा कृष्णपदांभोजभक्तिमृते।
वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः।।167।।

यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे।
प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तता ज्ञानम्।।168।।

जानन्तु तत्र बीजं हरिभक्त्या ज्ञानिनो ये स्युः।
मूर्तं चैवामूर्तं द्वे एव ब्रह्मणो रूपे।।169।।

इत्युपनिषत्तयोर्वा द्वौ भक्तौ भगवदुपदिष्टौ।
क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये।।170।।

स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा।
प्रारंभे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च।।171।।

स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम्।
विविधोपचारकरणैर्हरिदासैः संगमः शश्वत्।।172।।

कृष्णकथासंश्रवणे महोत्सवः सत्यवादश्च।
परयुवतौ द्रविणे वा परापवादे पराङ्मुखता।।173।।

ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम्।
यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिंता।।174।।

एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरंतराविशति।।175।।

स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ।
मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम्।।176।।



सत्यं समस्तजंतुषु कृष्णस्यावस्थितेर्ज्ञानम्।
अद्रोहो भूतगणे ततस्तु भूतानुकंपा स्यात्।।177।।

प्रमितयदृच्छालाभे संतुष्टिर्दारपुत्रादौ।
ममताशून्यत्वमतो निरहंकारत्वमक्रोधः।।178।।

मृदुभाषिता प्रसादो निजनिंदायां स्तुतौ समता।
सुखदुःखशीतलोष्णद्वंद्वसहिष्णुत्वमापदो न भयम्।।179।।

निद्राहारविहारेष्वनादरः संगराहित्यम्।
वचने चानवकाशः कृष्णस्मरणेन शाश्वती शांतिः।।180।।

केनापि गीयमाने हरिगीते वेणुनादे वा।
आनंदाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः।।181।।

तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम्।
स्थिरतां याते तस्मिन्याति मदोन्मत्तदंतिदशाम्।।182।।

जंतुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः।
एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात्।।183।।

ध्यानविधिः।
यमुनातटनिकटस्थितवृंदावनकानने महारम्ये।
कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य।।184।।

तिष्ठन्तं घननीलं स्वेतजसा भासयंतमिह विश्वम्।
पीतांबरपरिधानं चंदनकर्पूरलिप्तसर्वांगम्।।185।।

आकर्णपूर्णनेत्रं कुंडलयुगमंडितश्रवणम्।
मंदस्मितमुखकमलं सुकौस्तुभोदारमणिहारम्।।186।।

वलयांगुलीयकाद्यानुज्ज्वलयंतं स्वलंकारान्।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम्।।187।।

गुंजारवालिकलितं गुंजापुंजान्विते शिरसि।
भुंजानं सह गोपैः कुंजांतरवर्तिनं हरिं स्मरत।।188।।

मंदारपुष्पवासितमंदानिलसेवितं परानंदम्।
मंदाकिनीयुतपदं नमत महानंददं महापुरुषम्।।189।।

सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः।
सुरभीतिक्षपणमहासुरभीमं यादवं नमत।।190।।



कंदर्पकोटिसुभवं वांछितफलदं दयार्णवं कृष्णम्।
त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते।।191।।

पुण्यतमामतिसुरसां मनोभिरामां हरेः कथां त्यक्त्वा।
श्रोतुं श्रवणद्वंद्वं ग्राम्यं कथमादरं भवति।।192।।

दौर्भाग्यमिंद्रियाणां कृष्णे विषये हि शाश्वतिके।
क्षणिकेषु पापकरणेष्वपि सज्यन्ते यदन्यविषयेषु।।193।।

सगुणनिर्गुणयोरैक्यम्।
श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम्।
यत्प्रोक्तं गूढतया तदहं वक्ष्येऽतिविशदार्थम्।।194।।

भूतेष्वंतर्यामी ज्ञानमयः सच्चिदानंदः।
प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम्।।195।।

ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च।
स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः।।196।।

इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे।
भगवाननया दृष्ट्या न लक्ष्यते ज्ञानदृग्गम्यः।।197।।

यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान्।
दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ।।198।।

साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्बिंबम्।
विश्वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत्।।199।।

यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः।
सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानंदः।।200।।

एको भगवान्रेमे युगपद्गोपीष्वनेकासु।
अथवा विदेहजनकश्रुतदेवभूदेवयोर्हरिर्युगपत्।।201।।

अथवा कृष्णाकारां स्वचमूं दुर्योधनोऽपश्यत्।
तस्माद्व्यापक आत्मा भगवान्हरिरीश्वरः कृष्णः।।202।।

वक्षसि यदा जघान श्रीवत्सः श्रीपतेः स किं द्वेष्यः।
भक्तानामसुराणामन्येषां वा फलं सदृशम्।।203।।

तस्मान्न कोऽपि शत्रुर्नो मित्रं नाप्युदासीनः।
नृहरिः सन्मार्गस्थः सफलः शाखीय यदुनाथः।।204।।



लोहशलाकानिवहैः स्पर्शाश्मनि भिद्यमानेऽपि।
स्वर्णत्वमेति लौहं द्वेषादपि विद्विषां तथा प्राप्तिः।।205।।

नन्वात्मनः सकाशादुत्पन्ना जीवसंततिश्चेयम्।
जगतः प्रियतर आत्मा तत्प्रकृते नैव संभवति।।206।।

वत्साहरणावसरे पृथग्वयोरूपवासनाभूपान्।
हरिरजमोहं कर्तुं सवत्सगोपान्विनिर्ममे स्वस्मात्।।207।।

अग्नेर्यथा स्फुलिंगाः क्षुद्रास्तु व्युच्चरन्तीति।
श्रुत्यर्थं दर्शयितुं स्वतनोरतनोत्स जीवसंदोहम्।।208।।

यमुनातीरनिकुंजे कदाचिदपि वत्सकांश्च चारयति।
कृष्णे तथार्थगोपेषु च वरगोष्ठेषु चारयत्स्वारात्।।209।।

वत्सं निरीक्ष्य दूराद्गावः स्नेहेन संभ्रांताः।
तदभिमुखं धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः।।210।।

प्रसवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान्।
पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा।।211।।

गोपा अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय।
इत्थमलौकिकलाभस्तेषां तत्र क्षणं ववृधे।।212।।

गोपा वत्साश्चान्या पूर्वं कृष्णात्मका ह्यभवन्।
तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन।।213।।

प्रेयः पुत्राद्वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मात्।
अंतरतरं यदात्मेत्युपनिषदः सत्यताभिहिता।।214।।

नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः।
दुर्योधनेऽर्जुने वा तरतमभावं कथं तु गतवान्सः।।215।।

बधिरांधपंगुमूका दीर्घाः खर्वाः सरूपाश्च।
सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन।।216।।

भूतसमत्वं नृहरेः समो हि मशकेन नागेन।
लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात्।।217।।

आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत्।
नानाकैतवयत्नैः पररमणीभिः कथं रमते।।218।।

सुंदरमभिनवरूपं कृष्णं दृष्ट्वा विमोहिता गोप्यः।
तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः।।219।।

गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुंजानाः।
कृष्णं विनान्यविषयं समक्षमपि जातु नाविंदन्।।220।।

दुःसहविरहभ्रांत्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून्।
हरिरयमिति सुप्रीताः सरभसमालिंगयांचक्रुः।।221।।

कापि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः।
अपिबत्स्तनमिति साक्षाद्व्यासो नारायणः प्राह।।222।।

तस्मान्निजनिजदयितान्कृष्णाकारान्व्रजस्त्रियो वीक्ष्य।
स्वपरनृपतिपत्नीनामंतर्यामी हरिः साक्षात्।।223।।

परमार्थतो विचारे गुडतन्मधुरत्वदृष्टांतात्।
नश्वरमपि नरदेहं परमात्माकारतां याति।।224।।

किं पुनरनंतशक्तेर्लीलावपुरीश्वरस्येह।
कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः।।225।।

मृद्भक्षणेन कुपितां विकसितवदनां स्वमातरं वक्त्रे।
विश्वमदर्शयदखिलं किं पुनरथ विश्वरूपोऽसौ।।226।।

अनुग्रहः।
विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता।
तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः।।227।।

अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि।
कंठाश्लेषविशेषादवधीद्बाल्येऽसुरं कृष्णः।।228।।

यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ।
रिंगन्नंगमभूमौ स्वमालयं प्रापयन्नृहरिः।।229।।

नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी।
काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम्।।230।।

गोगोपीगोपानां निकरमहिं पीडयन्तमतिवेगात्।
अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान्।।231।।

पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः।
दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिंधुः।।232।।

पातुं गोकुलमाकुलमशनितडिद्वर्षणैः कृष्णः।
असहाय एकहस्ते गोवर्धनमुद्दधारोच्चैः।।233।।



वासोलोभाकलितं धावद्रचकं शिलातलैर्हत्वा।
विस्मृत्य तदपराधं विकुंठवासोऽर्पितस्तस्मै।।234।।

त्रेधा वक्रशरीरामतिलंबोष्ठीं स्खलद्वपुर्वचनात्।
स्रक्चंदनपरितोषात्कुब्जामृज्वाननामकरोत्।।235।।

निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः।
तुंगोन्मत्तमतंगः पतगंवद्दीपकस्याग्रे।।236।।

युद्धमिषात्सह रंगे श्रीरंगेनांगसंगमं प्राप्य।
मुष्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपति।।237।।

देहकृतादपराधाद्वैकुंठोत्कंठितांतरात्मानम्।
यदुवरकुलावतंसः कंसं विध्वंसयामास।।238।।

हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै।
भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम्।।239।।

मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः।
नीतास्ते निजरूपं तत्र च मोक्षस्य का वार्ता।।240।।

ये यदुनंदननिहतास्ते तु न भूयः पुनर्भवं प्रापुः।
तस्मादवताराणामंतर्यामी प्रवर्तकः कृष्णः।।241।।

ब्रह्मांडानि बहूनि पंकजभवान्प्रत्यंडमत्यद्भुता

न्गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः।

शंभुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रया
त्कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा।।242।।

कृपापात्रं यस्य त्रिपुररिपुरंभोजवसतिः

सुता जह्नोः पूता चरणनखनिर्णेजनजलम्।

प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि
निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः।।243।।

मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां

मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि।

कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं
तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शांतिम।।244।।

उदासीनः स्तब्धः सततमगुणः संगरहितो

भवांस्तातः कातः परमिह भवेज्जीवनगतिः।

अकस्मादस्माकं यदि न कुरुते स्नेहमथ त
द्वसस्व स्वीयांतर्विमलजठरेऽस्मिन्पुनरपि।।245।।



लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां

संकोचः पंकजानां किमिह समुदिते मंडले चंडरशमेः।

भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं
तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते।।246।।

नित्यानंदसुधाननिधेरधिगतः सन्नीलमेघः सता

मौत्कंठ्यप्रबलप्रभंजनभरैराकर्षितो वर्षति।

विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं
चेतश्चातक चेन्न वांछति मृषाक्रांतोऽसि सुप्तोऽसि किम्।।247।।

चेतश्चंचलतां विहाय पुरतः संधाय कोटिद्वयं

तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम्।

विश्रांतिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यतां
युक्त्या वानुभवेन यत्र परमानंदश्च तत्सेव्यताम्।।248।।

पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धनं

भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कंठया।

नैतादृग्यदुनायके समुदिते चेतस्यनंते विभौ
सांद्रानंदसुधार्णवे विहरति स्वैरं यतो निर्भयम्।।249।।

काम्योपासनयार्थयन्त्यनुदिनं किंचित्फलं सेप्सितं

किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः।

अस्माकं यदुनंदनांघ्रियुगलध्यानावधानार्थिनां
किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम्।।250।।

आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः।
लोहमपि चुंबकाश्मा संमुखमात्रं जडं यद्वत्।।251।।

अयमुत्तमोऽयमधमो जात्या रूपेण संपदा वयसा।
श्लाघ्योऽश्लाघ्यो वेत्थं न वेत्ति भगवाननुग्रहावसरे।।252।।

अंतःस्थभावभोक्ता ततोंऽतरात्मा महामेघः।
खदिरश्चंपक इव वा प्रवर्षणं किं विचारयति।।253।।

यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते।
भक्ताः परमानंदे रमन्ति सदयावलोकेन।।254।।

सुतरामनन्यशरणाः क्षीराद्याहारमंतरा यद्वत्।
केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति।।255।।

यद्यपि गगनं शून्यं तथापि जलदामृतांशुरूपेण।
चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम्।।256।।

तद्वद्व्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः।
कृपया फलत्यकस्मात्सत्यानंदामृतेन विपुलेन।।257।।


इति प्रबोधसुधाकरः समाप्तः।।