Devotional Hymns - Miscellaneous

।।श्रीः।।

।।अर्धनारीश्वरस्तोत्रम्।।
चाम्पेयगौरार्धशरीरकायै

कर्पूरगौरार्धशरीरकाय।

धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय।।1।।

कस्तूरिकाकुङ्कुमचर्चितायै

चितारजःपुञ्जविचर्चिताय।

कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय।।2।।

झणत्क्वणत्कङ्कणनूपुरायै

पादाब्जराजत्फणिनूपुराय।

हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय।।3।।

विशालनीलोत्पललोचनायै

विकासिपङ्केरुहलोचनाय।

समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय।।4।।

मन्दारमालाकलितालकायै

कपालमालाङ्कितकन्धराय।

दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय।।5।।

अम्भोधरश्यामलकुन्तलायै

तटित्प्रभाताम्रजटाधराय।

निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय।।6।।

प्रपञ्चसृष्ट्युन्मुखलास्यकायै

समस्तसंहारकताण्डवाय।

जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय।।7।।

प्रदीप्तरत्नोज्ज्वलकुण्डलायै

स्फुरन्महापन्नगभूषणाय।

शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय।।8।।

एतत्पठेदष्ठकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं


भूयात्सदा तस्य समस्तसिद्धिः।।9।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
अर्धनारीश्वरस्तोत्रम् संपूर्णम्।।