Comprehensive Texts

अथोभयात्मका वर्णाः स्युरग्नीषोमात्मभेदतः।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः।।3.1।।

स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात्।।3.2।।

एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः।
पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ।।3.3।।

आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम्।
वर्णानामागमधनैस्तन्नपुंसकमीरितम्।।3.4।।

तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम्।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे।।3.5।।

दक्षः सव्यस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः।।3.6।।

बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात्।
तयोर्विकारविस्तारः परस्तात्संप्रवक्ष्यते।।3.7।।

स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः।
भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः।।3.8।।

चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात्।
तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः।।3.9।।

व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः।
शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः।।3.10।।

तत्ित्रभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः।।3.11।।

षोडशद्वादशदशसंख्याः स्युः क्रमशः कलाः।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः।।3.12।।

सर्वगाश्च समुत्पन्नाः पञ्चाशत्संख्यकाः कलाः।
ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः।।3.13।।

तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः।
तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः।।3.14।।

याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम्।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः।।3.15।।

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना।
पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः।।3.16।।

तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः।
सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः।।3.17।।

कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी।।3.18।।

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि।
याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः।।3.19।।

सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः।।3.20।।

अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः।
जरा च पालिनी शान्तिरैश्वरी रतिकामिके।।3.21।।

वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः।।3.22।।

तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः।।3.23।।

मकारप्रभवा रुद्रजाताः संहृतये कलाः।
बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाः सिताः।।3.24।।

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च।
इन्धिका दीपिका चैव रेचिका गोचिका परा।।3.25।।

सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा।
व्यापिनी व्योमरूपा चेत्यनन्ता नादसंभवाः।।3.26।।

नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः।
केशवनारायणमाधवगोविन्दविष्णवः।।3.27।।

मधुसूदनसंज्ञश्च सप्तमः स्यात्ित्रविक्रमः।
वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः।।3.28।।

पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक्।
संकर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः।।3.29।।

ततश्चक्री गदी शार्ङ्गी खङ्गी शङ्खी हली तथा।
मुसली शूलिसंज्ञश्च भूयः पाशी च साङ्कुशी।।3.30।।

मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः।
कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः।।3.31।।

भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः।
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा।।3.32।।

हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम्।
कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया।।3.33।।

मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती।
प्रीती रतिश्च संप्रोक्ताः क्रमेण स्वरशक्तयः।।3.34।।

जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः।।3.35।।

ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा।।3.36।।

परा परायणा सूक्ष्मा संध्या प्रज्ञा प्रभा निशा।
अमोधा विद्युता चेति मूर्त्याद्याः सर्वकामदाः।।3.37।।

एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः।
सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः।।3.38।।

श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः।
अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः।।3.39।।

झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः।।3.40।।

ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः।
तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः।।3.41।।

अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ।।3.42।।

अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा।
छगलण्डद्विरण्डौ च समहाकालचालिनौ।।3.43।।

भुजङ्गेशः पिनाकी च खङ्गीशश्च बकस्तथा।
श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः।।3.44।।

पूर्णोदरी च विरजा तृतीया शाल्मली तथा।
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च।।3.45।।

सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका।
कुण्डोदर्यूर्ध्वकेशी च मुखी विकृतपूर्विका।।3.46।।

सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता।।3.47।।

गीरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका।
भूतमाता लम्बोदरी द्राविणी नागरी तथा।।3.48।।

खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा।
कोदरी पूतना भद्रकालीयोगिन्य एव च।।3.49।।

शङ्खिनी गर्जिनी कालरात्री कुर्दिन्य एव च।
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी।।3.50।।

रेवती माधवी चैव वारुणी वायवी तथा।
रक्षोऽवधारिणी चान्या तथैव सहजाह्वया।।3.51।।

लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः।
इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः।।3.52।।

चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः।
तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः।।3.53।।

पिप्पलबिल्वगुहारुणतृणकलवङ्काह्वकुम्भिवन्दिन्यः।
सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः।।3.54।।

प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी।
रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः।।3.55।।

शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी।
दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे।।3.56।।

आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः।
गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः।।3.57।।

यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः।
येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः।।3.58।।

समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः।।3.59।।

उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम्।
नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः।।3.60।।

अर्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात्।
सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः।।3.61।।

अकारेकारयोर्योगादेकारो वर्ण इष्यते।
तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा।।3.62।।

उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः।
तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा।।3.63।।

संध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः।
लृवर्णर्वर्णयोर्व्यक्तिर्लरोः सम्यक् प्रदृश्यते।।3.64।।

बिन्दुसर्गात्मनोर्व्यक्तिममसोरजपा वदेत्।
कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः।।3.65।।

नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः।
स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत्।।3.66।।

सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम्।
स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः।।3.67।।

ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा।।3.68।।

लृतवर्गलसानोष्ठादुपूपध्मानसज्ञकान्।
दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत्।।3.69।।

ह्रस्वाः पञ्च परे च संधिविकृताः पञ्चाथ बिन्द्वन्तिकाः

काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः।

हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ
क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः।।3.70।।

ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः।।3.71।।

मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै।।3.72।।

स्तम्भनाद्यमथ पार्थिवैरपा

मक्षरैश्च परिवर्षणादिकम्।

दाहशोषणसशून्यतादिका
न्वह्निवायुवियदुत्थितैश्चरेत्।।3.73।।

दशभिर्दशभिरमीभि

र्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः।

योनेर्मध्ये कोण
त्रितये मध्ये च संयजेन्मन्त्री।।3.74।।

पूर्वोक्ताद्बिन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता

कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव।

यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि
स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम्।।3.75।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे तृतीयः पटलः।।