Comprehensive Texts

अथाभिवक्ष्ये सकलप्रपञ्च

मूलात्मिकायाः प्रकृतेर्यथावत्।

मन्त्रं तु साङ्गं सहुताभिषेक
जपार्चनाद्यं सकलार्थसिद्ध्यै।।9.1।।

घनवर्त्मकृष्णगतिशान्तिबिन्दुभिः

कथितः परः प्रकृतिवाचको मनुः।

दुरितापहोऽर्थसुखधर्ममोक्षदो
भजतामशेषजनरञ्जनक्षमः।।9.2।।

शक्तिः स्यादृषिरस्य तु

गायत्त्री चोदिता मनोश्छन्दः।

बोधस्वरूपवाची
संवित्प्रोक्ता च देवता गुरुभिः।।9.3।।

नेत्रकरणर्तुदिनकर

भुवनविकारस्वराग्निबिन्दुयुजा।

व्योम्नाङ्गषट्कक्लृप्ति
र्जातिविभिन्नेन चापि संप्रोक्ता।।9.4।।

अग्नीन्दुयोगविकृता लिपयो हि सृष्टा

स्ताभिः प्रलोमपठिताभिरिदं शरीरम्।

भूतात्मकं त्वगसृगादियुतं समस्तं
संव्यापयेन्निशितधीर्विधिना यथावत्।।9.5।।

अन्त्यावूष्मस्वमून्वादिषु खलिपिपु तांस्तांश्चतुर्वर्गवर्णे

ष्वेतानस्यम्यदस्तद्दति तदपि परेपु स्वरेपु क्रमेण।

संहृत्य स्थानयुक्तं क्षपितसकलदेहो ललाटस्थितान्तः
प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव।।9.6।।

मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो

द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता।

सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा
ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात्।।9.7।।

शिरसि निपतिता या बिन्दुधारा सुधाया

भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम्।

विरचयतु समस्तं पातितान्तश्च तेज
स्यनल इव घृतस्योद्दीपयेदात्मतेजः।।9.8।।

संहृत्य चोत्पाद्य शरीरमेवं

तेजोमयं व्याप्तसमस्तलोकम्।

संकल्प्य शक्त्यात्मकमात्मरूपं
तच्चिह्नमात्मन्यपि संदधीत।।9.9।।

उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध

द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च।

हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या
मम्बां पाशाङ्कुशेष्टाभयकरकमलामम्बिकां तां नमामि।।9.10।।

धातू द्वौ स्तो रक्षणव्यापकार्थौ

पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च।

सर्वं संरक्ष्याथ सर्वात्मना यो
व्याप्नोत्यंशं स्यादसौ पाशवाची।।9.11।।

अं स्यादात्मा कुर्धरा कुस्तनुर्वा

भागार्थः स्याच्छोऽथ वा वृत्तिवाची।

भूश्चेद्भूतान्यन्यथा चेच्छरीरा
ण्याकृष्यात्मन्याहरेदङ्कुशाख्यः।।9.12।।

स्मृते यथा संसृतिचक्रचङ्क्रमो

द्भवाद्धनापायसमुत्थितादपि।

वियोजयत्यात्मतनुं नरं भया
त्तथाभयस्याभयसंज्ञिता विभोः।।9.13।।

मुख्यार्थवाची वरशब्द उक्तः

स्याद्वाञ्छितार्थश्च वराभिधानम्।

मुख्यं त्वभीष्टं स्मृतिमात्रकेण
ददाति योऽसौ वरदोऽवगम्यः।।9.14।।

दीक्षाक्लृप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त

द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्कर्णिकं वर्णकीर्णम्।

आपीतं केसरेष्वारचितहरिहरार्णैश्च मध्ये समायै
स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम्।।9.15।।

शक्त्याविःसाध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्ने

स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः।

वर्णैश्चावेष्टितं तत्ित्रगुणितमिति विख्यातमेतत्सुयन्त्रं
स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च।।9.16।।

हृल्लेखाख्यां गगनां

रक्तां च करालिकां महोच्छुष्माम्।

मूर्धनि वदने गुह्ये
पदयोर्न्यस्येत्तदङ्गैश्च।।9.17।।

गायत्रीं न्यसतु गले स्तनेऽथ सव्ये

सावित्रीं पुनरपरे सरस्वतीं च।

सव्येंसे सरसिजसंभवं मुकुन्दं
हृद्देशे पुनरपरांसके शिवं च।।9.18।।

अलिकांसपार्श्वकुक्षिषु

पार्श्वांसापरगलहृत्सु च क्रमशः।

ब्रह्माण्याद्या विधिव
न्न्यस्तव्या मातरोऽष्ट मन्त्रितमैः।।9.19।।

सजया विजया च तथा

जिताह्वया चापराजिता नित्या।

तदनु विलासिनिदोग्ध्र्यौ
साघोरा मङ्गला नव प्रोक्ताः।।9.20।।

एवं संपूज्य पीठं तदनु नव घटान्पञ्च वा कर्णिकायां

पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा।

एकं वा कर्णिकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव
त्संपूर्यावाहयेत्ित्रष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण।।9.21।।

मधुनाथ महारवैश्च साकं

विधिना मध्यगतं प्रपूर्य कुम्भम्।

अभिवाह्य कलाः प्रवेष्टयीत
प्रवराभ्यामथ तन्नवांशुकाभ्याम्।।9.22।।

ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना

क्षीरेण वारुणमथो तिलजेन सौम्यम्।

क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध
क्वाथेन कोणनिलयानपि पूरयेच्च।।9.23।।

मूत्रेणैन्द्रं गोमयेनापि याम्यं

क्षीरेणाप्यं सौम्यजं चैव दध्ना।

मध्यप्रोक्तं सर्पिषा पञ्च कुम्भा
न्संस्थाप्यापः पूरणीयाः क्रमेण।।9.24।।

गोमूत्रगोमयोदक

पयोदधिघृतांशकाः क्रमात्प्रोक्ताः।

एकार्धधातुसत्त्वा
द्येके सर्वाणि वा समानि स्युः।।9.25।।

तारभवाभिरथर्ग्भिः

क्रमेण सयोजयेच्च गव्यानि।

आत्माष्टाक्षरमन्त्रै
रथ वा योज्यानि पञ्चभिः पञ्च।।9.26।।

यद्येककलशक्लृप्तौ

विधिरपि पञ्चाशदोषधिक्वाथैः।

पूरयतु पञ्चभिर्वा
गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः।।9.27।।

अत्रोत्तरस्यां दिशि पङ्कजे च

पलाशचर्मोत्क्वथितैः पयोभिः।

संपूरणीयः कलशो यथाव
त्सुवर्णवस्त्रादियुतः सुशुद्धः।।9.28।।

द्वारेषु मण्डपस्य

द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ।

संस्थाप्य च वसनाद्यैः
प्रवेष्टयित्वाभिपूजनीयाः स्युः।।9.29।।

ऊर्ध्वेन्द्रयाम्यसौम्य

प्रत्यक्षु च भूतवर्णकाः क्रमशः।

हृल्लेखाद्यास्तदनु च
पूर्ववदङ्गानि पूजनीयानि।।9.30।।

गायत्रीं शतमखजे निशाचरोत्थे

सावित्रीं पवनगते सरस्वतीं च।

ब्रह्माणं हुतभुजि वारुणे च विष्णुं
बीजेऽग्रे समभियजेदथेशमैशे।।9.31।।

रक्ता रक्ताकल्पा

चतुर्मुखी कुण्डिकाक्षमालेऽब्जे।

दधती प्राग्बीजस्य
गायत्री तादृशोऽग्निगो ब्रह्मा।।9.32।।

अरिदरगदाब्जहस्ता

किरीटकेयूरहारसंभिन्ना।

निशिचरबीजसमुत्था
सावित्री वरुणगस्तथा विष्णुः।।9.33।।

टङ्काक्षाल्यभयवरा

न्दधती च त्रीक्षणेन्दुकलितजटा।

वाणी वायव्यस्था
विशदाकल्पा तथेश्वरस्त्वैशे।।9.34।।

ब्रह्माण्याद्यास्तद्बहि

रनन्तरं वासवादिकाशेशाः।

पूज्याः पूर्वोक्तैरुप
चारैः सम्यङ्निजेष्टाप्त्यै।।9.35।।

यदि नवकलशास्तेष्वथ

संपूज्या मातरोऽष्टदिक्क्रमशः।

हृल्लेखाद्याः पूज्या
मध्यादिषु पञ्च चेद्भवन्ति घटाः।।9.36।।

प्रथमं घृतजं ततः कषायं

दधि पश्चात्क्वथितं पयः कषायम्।

अथ तैलकषायकामधूत्थं
द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत्।।9.37।।

द्वारगकुम्भघृतैरथ

सलिलैः पुनरन्तरासेकम्।

कुर्यान्मुखकरचरण
क्षालनमपि साचमादिकं मन्त्री।।9.38।।

विधिवत्कृताभिषेको

द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम्।

निजकरदत्तार्घ्यामृत
जलपोषितभानुमत्प्रभोऽनुदिनम्।।9.39।।

भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा

मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः।

आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो
जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसंख्यम्।।9.40।।

अथ तु हविष्यप्राशी

नक्ताशी वा जपेन्मनुं त्वेवम्।

परिपूर्णायां नियमित
जपसंख्यायां समारभेद्धोमम्।।9.41।।

जपाद्दशांशं जुहुयादथाष्ट

द्रव्यैर्गुडक्षौद्रघृतावसिक्तैः।

वर्णौषधीसिद्धजलाभिषेकं
कृत्वा द्विजानभ्यवहारयेच्च।।9.42।।

ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना।
अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत्।।9.43।।

ततः कृत्वा जपह्रासं समुपासीत शक्तितः।
युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत्।।9.44।।

अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां

तर्कारिकप्लक्षकसेव्यकानाम्।

प्रसारिणीकाष्मरिरोहिणाना
मुदुम्बरीपाटलडुण्डुकानाम्।।9.45।।

पलं पलार्धं त्वथ कर्षमर्धं

तेषां तु भागः कथितः क्रमेण।

एतैः श्रितेनाथ जलेन वासौ
संपूरणीयः कलशो यथावत्।।9.46।।

प्रत्यब्दसेकाद्भविता शतायु

र्मेधेन्दिरावान्नहितश्च रोगैः।

मासेषु जन्मस्वभिषेकतः स्या
दुर्वीपतिर्मङ्क्षु महापृथिव्याः।।9.47।।

अर्काभस्तेजसासौ भवति नलिनजा संततं किंकरी स्या

द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम्।

देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः
संपन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात्।।9.48।।

शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह

द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च।

कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा
र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम्।।9.49।।

षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत्।
षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत्।।9.50।।

वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम्।
मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत्।।9.51।।

द्वितीयवर्तुलाश्िलष्टमीषच्छिलष्टषडश्रकम्।
पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम्।।9.52।।

इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत्।
षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत्।।9.53।।

एकैकान्तरितास्तास्तु संबध्युरितरेतरम्।
शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः।।9.54।।

मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः।
अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत्।।9.55।।

अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत्।
हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम्।।9.56।।

तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः।
लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि।।9.57।।

वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत्।
शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत्।।9.58।।

वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च।
संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च।।9.59।।

बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः।
तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात्।।9.60।।

ततो विदर्भितं भूमेर्मण्डलद्वयमालिखेत्।
महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम्।।9.61।।

बहिः षोडशशूलाङ्कं शोभनं व्यक्तवर्णवत्।
एतद्यन्त्रं समालिख्य पद्ममारचयेत्ततः।।9.62।।

रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम्।
पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम्।।9.63।।

अभ्यर्च्य पीठं नवशक्तिकान्त

मङ्गानि बीजेषु च षट्सु भूयः।

गायत्रिसावित्रिसरस्वतीश्च
यजेदथ श्रीरतिपुष्टिसंज्ञाः।।9.64।।

ब्रह्माणमथ च विष्णुं

महेश्वरं धनदमदनगणनाथान्।

अभ्यर्चयेच्च षट्स्वपि
वह्नेः कोणेषु तद्बहिः क्रमशः।।9.65।।

रक्तामनङ्गकुसुमां कुसुमातुरां च

नित्यामनङ्गमदनां मदनातुरां च।

गौरीं तथैव गगनां गगनस्य रेखां
पद्मां भवप्रमथिनीं शशिशेखरां च।।9.66।।

एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती

स्तद्बाह्यतो यजतु मातृगणं क्रमेण।

इन्द्रादिकान्बहिरतश्च तदायुधानि
संपूज्य पूर्वविधिनामुमथाभिषिञ्चेत्।।9.67।।

योऽमुमर्चयति मुख्यविधानं

सिद्धशक्तिरपि सञ्जपहोमैः।

स श्रियो निलयनं त्रिदशानां
वन्द्यतां व्रजति विष्णुसमानः।।9.68।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे नवमः पटलः।।