Comprehensive Texts

अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता

मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम्।

अनलकषमरेफप्राणसद्यान्तवाम
श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः।।27.1।।

ऋषिरपि काश्यप उक्त

श्छन्दोऽनुष्टुप्च देवतोमेशः।

यान्तैः षड्भिर्वर्णै
रङ्गं वा देवतार्धनारीशः।।27.2।।

अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि

स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी।

भुजगपरशुशूलान्खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः।।27.3।।

हावभावललितार्धनारिकं

भीषणार्धमपि वा महेश्वरम्।

पाशसोत्पलकपालशूलिनं
चिन्तयेज्जपविधौ विभूतये।।27.4।।

अथ वा षोडशशूल

व्यग्रभुजा त्रिणयनाभिनद्धाङ्गी।

अरुणांशुकानुलेपन
वर्णाभरणा च भगवती ध्येया।।27.5।।

विहितार्चनाविधिरथानुदिनं

प्रजपेद्दशायुतमितं मतिमान्।

अयुतं हुनेत्ित्रमधुरार्द्रतरै
स्तिलतण्डुलैस्तदवसानविधौ।।27.6।।

शैवोक्तपीठेऽङ्गपदैर्यथाव

द्वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः।

समातृभिर्दिक्पतिभिर्महेशं
पञ्चोपहारैर्विधिनार्चयीत।।27.7।।

आरभ्यादिज्वलनं

दिक्संस्थैरष्टभिर्मनोरर्णैः।

आराधयेच्च मातृभि
रिति संप्रोक्तः प्रयोगविधिरपरः।।27.8।।

कात्पूर्वं हसलिपिसंयुतं जपादौ

जप्तृ़णां प्रवरमितीह केचिदाहुः।

प्रासादाद्ययुतजपेन मङ्क्षु कुर्या
दावेशादिकमपि नीरुजां च मन्त्री।।27.9।।

शिरसोऽवतरन्निशेशबिम्ब

स्थितमज्भिर्वृतमागलत्सुधार्द्रम्।

अपमृत्युहरं विषज्वराप
स्मृतिविभ्रान्तिशिरोरुजापहं च।।27.10।।

निजवर्णविकीर्णकोणवैश्वा

नरगेहद्वितयावृतत्रिकोणे।

विगतस्वरवीतमुत्तमाङ्गे
स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम्।।27.11।।

वह्नेर्बिम्बे वह्निवत्प्रज्वलन्तं

न्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः।

ध्यात्वावेशं कारयेद्बन्धुजीवं
तज्जप्तं वा सम्यगाघ्राणनेन।।27.12।।

शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो

रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः।

धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः
पीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः।।27.13।।

कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते

बाधिर्यं कर्णरन्ध्रेऽर्दितमपि वदने कुक्षिगं शूलमाशु।

मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगं
वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत्।।27.14।।

प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं

योनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत्।

विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये विभ्रमे
दाहे शीर्षगदे स्मरेद्विधिमिमं संतृप्तये मन्त्रवित्।।27.15।।

साध्याया हृदयकुशेशयोदरस्थं

प्राणाख्यं दृढमवबध्य बीजवर्णैः।

तेजस्तच्छिरसि विधुं विधाय वाते
नाकर्षेदपि निजवाञ्छयैव मन्त्री।।27.16।।

पारिभद्रसुमनोदलभद्रं

वह्निबिम्बगतमक्षरमेतत्।

संस्मरेच्छिरसि यस्य स वश्यो
जायते न खलु तत्र विचारः।।27.17।।

निजनामगर्भमथ बीजमिदं

प्रविचिन्त्य योनिसुषिरे सुदृशः।

वशयेत्क्षणाच्छिततया मनसः
स्रवयेच्च शुक्लमथ वा रुधिरम्।।27.18।।

निजशिवशिरःश्रितं त

द्बिम्बं स्मृत्वा प्रवेशयेद्योनौ।

यस्यास्तत्संपर्का
त्तां च क्षरयेत्क्षणेन वशयेच्च।।27.19।।

पररेफगर्भधृतसाध्यपदं

त्रिकगं हुताशयुतषट्कवृतम्।

विगतस्वरावृतमगारभुवि
स्थितमेतदाशु वशयेद्रमणान्।।27.20।।

मधुरत्रयसंयुतेन शाली

रजसा पुत्तलिकां विधाय तेन।

मनुना जुहुयात्तया विभज्य
त्रिदिनं यस्य कृते वशो भवेत्सः।।27.21।।

विषपावकोद्यदभिधानगदं

ठगतं कुकोणयुतलाङ्गलिकम्।

अहिपत्रक्लृप्तपरिजप्तमिदं
शिरसो रुजं प्रशमयेददनात्।।27.22।।

कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं

दक्षं संवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च।

वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं
वक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः।।27.23।।

कृत्वा वह्नेः पुरमनु मनुं बन्धुजीवेन तस्मि

न्नाधायाग्निं विधिवदभिसंपूज्य चाज्यैः शताख्यम्।

त्रैलोहाख्ये प्रतिविहितसंपातमष्टोत्तरं त
द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि।।27.24।।

साध्याख्यागर्भमेनं लिख दहनपुरे कर्णिकायां षडश्रं

बाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य।

भूयोऽचः कादियादींस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं
तस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात्।।27.25।।

टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि

द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा।

तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत
द्यन्त्रं रक्षाकरं स्याद्ग्रहगदविषमक्ष्वेलजूर्त्यादिरोगे।।27.26।।

बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि

ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो संधिषट्के यथावत्।

तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां
लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे।।27.27।।

लक्ष्म्यायुःपुष्टिकरं

परं च सौभाग्यवश्यकृत्सततम्।

चोरव्यालमहोरग
भूतापस्मारहारि यन्त्रमिदम्।।27.28।।

साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि

ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा।

जप्त्वाष्टोर्ध्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु
व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति।।27.29।।

ससिद्धसुरपूजितः सकलवर्गसंसाधको

ग्रहज्वररुजापहो विषविसर्पदोषापहः।

किमत्र बहुनार्थिनामभिमतार्थचिन्तामणिः
समुक्त इह संग्रहान्मनुवरस्तु चिन्तामणिः।।27.30।।

षष्ठस्वरो हुतवहस्तययोस्तुरीया

वाद्यस्वरो मनुरयं कथितः फडन्तः।

अस्य त्रिको निगदितो मनुरप्यनुष्टु
प्छन्दश्च चण्डसहितो मनुदेवतेशः।।27.31।।

सप्तज्वलज्वालिनिभिस्तटेन च हतेन च।
सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत्।।27.32।।

अव्यात्कपर्दकलितेन्दुकरः करात्त

शूलाक्षसूत्रककमण्डलुटङ्क ईशः।

रक्ताभवर्णवसनोऽरुणपङ्कजस्थो
नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः।।27.33।।

कृतसंदीक्षो मन्त्री

जप्याल्लक्षत्रयं च मन्त्रमिमम्।

जुहुयात्ित्रमधुरसिक्तैः
सतिलैरपि तण्डुलैर्दशांशेन।।27.34।।

व्याघातसमिद्भिर्वा

मनुजापी तावतीभिरथ जुहुयात्।

पूर्वोक्तार्चापीठे
गन्धाद्यैरर्चयेच्च चण्डेशम्।।27.35।।

चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम्।
चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत्।।27.36।।

तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात्।
एषा तु चण्डगायत्री जपात्सांनिध्यकारिणी।।27.37।।

अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत्।
कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः।।27.38।।

वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम्।
अर्चनादिष्विमं मन्त्रं यथावत्संप्रयोजयेत्।।27.39।।

एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके।
वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः।।27.40।।

त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम्।
ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः।।27.41।।

कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना

माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात्।

छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा
द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम्।।27.42।।

अनुदिनमष्टशतं यो

जुहुयात्पुष्पैरनेन मन्त्रेण।

सप्तदिनैः स तु लभते
वासस्तद्वर्णसंकाशम्।।27.43।।

अहरहरष्टशतं यो

मन्त्रेणानेन तर्पयेदीशम्।

तस्य तु मासचतुष्का
दर्वाक्संजायते महालक्ष्मीः।।27.44।।

साध्यर्क्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं

कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत्।

सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे
दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः।।27.45।।

इति चण्डमन्त्रविहितं विधिव

द्विधिमादरेण य इमं भजते।

स तु वाञ्छितं पदमिहाप्य पुनः
शिवरूपतामपि परत्र लभेत्।।27.46।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे सप्तविंशः पटलः।।