Comprehensive Texts

अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः।
जपतामिष्टसंसिद्धिविधानसुरपादपः।।।26.1।।

अत्रिः क्षिणा कालकर्णकामिकायुग्रयेक्षराः।
तुध्यामध्यगताः स्युर्भ्यं वटमूलनिवासिने।।26.2।।

नैधातृनिरताङ्गाय नमो रुद्राय शंभवे।
तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः।।26.3।।

शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम्।
दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता।।26.4।।

तारशक्त्यादिकैर्ह्राङाद्यन्तैर्मन्त्राक्षरैः क्रमात्।
ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः।।26.5।।

मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः।
कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश।।26.6।।

दोःसंधिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात्।

पत्संधिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत्।।
एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम्।।26.7।।

मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं

जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः।

आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः।।26.8।।

प्राक्प्रोक्तविधानेन च

सम्यक्संपूज्य साधु कलशाद्यैः।

कृतसंदीक्षो मन्त्री
जप्यादेनं मनुं समाहितधीः।।26.9।।

द्वात्रिंशदयुतमानं

जप्याच्च जुहोतु तद्दशांशमितैः।

दुग्धाप्लुतैस्तिलैर्वा
साज्येन पयोन्धसा द्वयेनापि।।26.10।।

जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा

नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान्।

व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी
वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत्।।26.11।।

जीवशिखिकर्णरेफा

न्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान्।

मेधाप्यायिनियान्तां
स्तानेव तरान्तिकान्सतनुरूपान्।।26.12।।

आभाष्य चटप्रचटौ

सकहवमौ बन्धघातयौ वीप्स्य।

प्रोक्त्वा वर्मास्त्रावधि
समुद्धरेच्छक्तिपूर्वकं मन्त्रम्।।26.13।।

ऋषिरस्याघोराख्यः

संप्रोक्तस्त्रिष्टुबुच्यते च्छन्दः।

रुद्रोऽप्यघोरपूर्वः
समीरितो देवता तथास्य मनोः।।26.14।।

हृत्पञ्चभिस्तदर्णैः

शिरो हि षड्भिः शिखा तथा दशभिः।

तावद्भिरेव कवचं
दृगष्टभिर्द्वादशभिरपि चास्त्रम्।।26.15।।

कदृगास्यकण्ठहृन्ना

भ्यन्धूरुषु जानुजङ्घयोः पदयोः।

एकादशधा भिन्नै
र्मन्त्रार्णैर्न्यसतु विग्रहे मन्त्री।।26.16।।

पञ्चभिरथो सषड्भि

र्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च।

षड्भिश्चतुस्त्रयेण च
षड्भिर्द्वाभ्यां च भेदितैः क्रमशः।।26.17।।

कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे

ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः।

रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी
न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः।।26.18।।

स्वच्छो मुमुक्षोस्तु भवेदघोरः

काम्यक्रियायामपि रक्तवर्णः।

कृष्णोऽभिचारे ग्रहवैकृते च
प्रोक्तो जपः स्यादपि लक्षमानम्।।26.19।।

घृतावसिक्तैस्तिलतण्डुलैश्च

जयावसाने जुहुयाद्दशांशम्।

घृतप्लुतैर्वाथ हविर्भिरेवं
तावत्प्रजुह्वन्समुपैति कामान्।।26.20।।

हृल्लेखास्थितसाध्या

क्षरविलसत्कर्णिकं कलावीतम्।

वर्गाष्टकात्तकेसर
मन्त्ये सहळक्षयाक्षरोल्लसितम्।।26.21।।

मन्त्राक्षरत्रयोद्य

द्दलमध्यदलाग्रकं च तद्बाह्ये।

वह्निपुटाश्रिसामाश्रित
कवचास्त्रं प्रतिविलिख्य यन्त्रमिदम्।।26.22।।

कृत्वा समाप्य मण्डल

मत्र विनिक्षिप्य पूरयेत्कलशम्।

पीठे पिनाकपाणे
र्गव्यैर्वा क्वाथक्लृप्ततोयैर्वा।।26.23।।

अङ्गावृतेरनु च हेतिभिरीरिताभिः

पश्चाच्च मातृभिरथापि दिशाधिनाथैः।

संपूजयीत विधिनेति षडक्षरोक्त
मार्गेण वा मनुपरिस्फुरणाय मन्त्री।।26.24।।

आज्यापामार्गसमि

त्तिलसर्षपपायसाज्यकैश्च पृथक्।

रात्रौ सहस्रहोमा
द्भूतद्रोहादिशान्तिरुद्दिष्टा।।26.25।।

सितकिंशुकनिर्गुण्डी

कनकापामार्गजन्मनां समिधाम्।

पृथगपि सहस्रहोमा
न्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात्।।26.26।।

गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै

र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत्।

सर्पिर्मार्गसपञ्चगव्यचरुसर्पिः ससंपातकं
हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः।।26.27।।

षट्कोणे कर्णिकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं

कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु।

षड्वेदद्वन्द्वषड्वेदकचतुर्युगष(?)ट्संख्यकान्बाह्यषट्के
वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः।।26.28।।

न च रिपवो न च रोगा

न ग्रहपीडा न शस्त्रबाधा च।

न क्ष्वेलरुजा मर्त्या
न्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान्।।26.29।।

तस्मादघोरास्त्रमनुं प्रजप्या

त्समर्चयेत्तद्विहितं यथावत्।

हुनेच्च तेनैव समस्तवाञ्छा
संसिद्धये चाथ विमुक्तये च।।26.30।।

खसप्तमः कर्णयुतोऽर्धचन्द्रवा

ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः।

मनुः स्वयं मृत्युजयात्मकः स्फुटं
समीरितः साधकरक्षणक्षमः।।26.31।।

ऋषिरस्य कहोलाख्य

श्छन्दो देव्यादिका च गायत्री।

स्याद्देवता च मृत्युं
जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा।।26.32।।

स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा

गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम्।

स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि।।26.33।।

जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं

दीक्षापूर्वं होमकृत्स्याद्दशांशैः।

दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या
गुर्वादेशात्साधको हव्यवाहे।।26.34।।

अर्चा कार्या नित्यशः शैवपीठे

स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः।

सम्यक्पूजावस्तुभिर्मन्त्रजापैः
प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम्।।26.35।।

इति जपहुतार्चनाद्यैः

सिद्धो मन्त्रोक्तमूर्तिविहितमनुः।

संभावयेन्निजान्त
र्योगं कृत्यापमृत्युनाशकरम्।।26.36।।

तारनालमथ मध्यपत्रकं

हाद्यकर्णिकयुतं क्रमोत्क्रमात्।

चिन्तयेन्नियतमन्तरा शिवं
नीरुजे च नियतायुषेऽब्जयोः।।26.37।।

ऊर्ध्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै

राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम्।

ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा संनिषण्णं
ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः संजपाद्दीर्घमायुः।।26.38।।

आदौ तारं विलिखतु ससाध्याह्वयं कर्णिकायां

दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु।

भूयो भूमेः पुरमनु मृगाङ्कं तदश्रेषु टान्तं
जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत्।।26.39।।

इति कृतयन्त्रविभूषित

मण्डलमध्ये निधाय कलशमपि।

आपूर्य चाभिषिञ्चे
च्छ्रीवश्यकरं ग्रहाभिचारहरम्।।26.40।।

ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत्।।26.41।।

यस्तु वह्नौ जुहोत्येवं यावत्संख्येन साधकः।
तावत्संख्यैः सुधाकुम्भैरग्निः प्रीणाति शंकरम्।।26.42।।

आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान्।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान्।।26.43।।

मन्त्रान्ते साध्याख्यां

पालययुगलं प्रतीपमपि मन्त्रम्।

प्रोक्त्वा समापयेन्मनु
मयमपि मृत्युंजयाह्वयो मन्त्रः।।26.44।।

अथ वामलकमलपुटा

न्तरितं शिशुवेषभूषणं रुद्रम्।

ध्यात्वा जपेद्यथाव
द्धुतक्लृप्त्या मृत्युनाशनं दृष्टम्।।26.45।।

चतुरङ्गुलपरिमाणै

रमृताखण्डैरथार्कसाहस्रम्।

जुहुयाच्च दुग्धसिक्तै
रारोग्यायायुषे च लक्ष्म्यै च।।26.46।।

अमृतावटतिलदूर्वाः

पयो घृतं पायसं क्रमेणेति।

सप्तद्रव्याण्युक्ता
न्येतैर्जुहुयात्पृथक्सहस्रतयम्।।26.47।।

तीव्रे ज्वरे घोरतरेऽभिचारे

सोन्मादके दाहगदे च मोहे।

तनोति शान्तिं नचिरेण होमः
संजीवनं चाब्दशतप्रमाणम्।।26.48।।

संभोजयेद्धोमदिने च विप्रा

न्सप्ताधिकान्स्वादुभिरन्नजातैः।

सतर्णका गाश्च हुतावसाने
दद्याद्द्विजेभ्यो हुतकर्मकृद्भ्यः।।26.49।।

निजजन्मदिने शतं शतं यो

जुहुयाद्द्रव्यवरैः ससप्तसंख्यैः।

मधुरैरपि भोजयेच्च विप्रा
नभिवाञ्छन्नियमेन दीर्घमायुः।।26.50।।

अथ वा सप्तभिरेतै

र्द्रव्यैरेकेन वा सहस्रतयम्।

जन्मर्क्षे होममात्रा
न्निरुपद्रवमुत्तमं व्रजेदायुः।।26.51।।

दूर्वात्रितयैर्जुहुया

न्मन्त्रविदेकादशाहुतीर्दिनशः।

जित्वापमृत्युरोगा
न्प्रयात्यसावायुषश्च दैर्घ्यमपि।।26.52।।

जन्मर्क्षाणां त्रितये

च्छिन्नाकाष्मर्यवकुलकैरिध्मैः।

क्रमशो हुनेत्सहस्रं
नश्यन्त्यपमृत्युरोगदुरितानि।।26.53।।

सितसिद्धार्थसहस्रा

हुत्या नश्यन्त्युपद्रवा ज्वरजाः।

तद्वदपामार्गहुता
मृत्युंजयमप्यरोगतां लभते।।26.54।।

प्रोक्तैर्ध्यानजपार्चनाहुतविधानाद्यैश्च मृत्युंजयं

यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः।

तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः
संपन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः।।26.55।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यसस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे ष़ड्विंश पटलः।।