Comprehensive Texts

अथ प्रवक्ष्यामि नृसिंहमन्त्र

स्यानुष्टुभः संग्रहतो विधानम्।

साङ्गं सजापं सहुतक्रमं च
सार्चाविधानं निजवाञ्छिताप्त्यै।।23.1।।

उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं

संप्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम्।

भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्या युतं
भूयोऽहंपदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम्।।23.2।।

ब्रह्मा प्रजापतिर्वा

प्रोक्त ऋषिर्नारदश्च विद्वद्भिः।

छन्दोऽनुष्टुबुदाहृत
मथ विष्णुर्देवता नृसिंहाख्यः।।23.3।।

वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च

तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा।

षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं
प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम्।।23.4।।

सशिरोललाटदृग्युग

मुखकरपदसंधिकेषु साग्रेषु।

उदरहृदोर्गलपार्श्वे
ष्वपरे ककुदि क्रमान्न्यसेद्वर्णान्।।23.5।।

प्रतिपत्तिरस्य चोक्ता

प्रसन्नता क्रूरता विशेषेण।

द्विविधा प्रसन्नया स्या
त्साधनपूजान्यया प्रयोगविधिः।।23.6।।

जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश

श्चक्रं शङ्खं च दोर्भ्यां दधदनलसमज्योतिषा भग्नदैत्यः।

ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं
दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः।।23.7।।

उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं

वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च।

दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः
संभिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि।।23.8।।

नरसिंहममुं धियैव पूर्वं

प्रणिपत्यार्घ्यकपाद्यसाचमाद्यैः।

प्रयजेत्सहगन्धपुष्पधूपा
दिभिरेवं प्रवरैश्च नृत्तगीतैः।।23.9।।

सुविशदमतिरथ बहिरपि

सम्यक्संपूज्य वैष्णवं पीठम्।

तत्रावाह्य च नरहरि
मुपचारैः सम्यगर्चयेत्प्रवरैः।।23.10।।

अङ्गैः प्रथमावृतिरपि

पक्षीन्द्रानन्तशर्वकमलभवैः।

सश्रीह्रीधृतिपुष्टिभि
रपरोक्ता लोकपालकैरन्या।।23.11।।

प्राक्प्रत्यग्यमशशिनां

दिगाश्रया मूर्तयोऽनलादिषु च।

स्युः शक्तय इत्येवं
भक्त्या परया युतोऽर्चयेद्देवम्।।23.12।।

द्वात्रिंशके सहस्रै

रधिकृतिरयुतैर्भवेत्पुरश्चरणम्।

तावद्भिस्तावद्भि
र्लक्षैः सिद्धिः समीरितास्य मनोः।।23.13।।

विकृतिद्विगुणसहस्रै

र्जुहुयादाज्यान्वितैश्च दुग्धान्नैः।

जपसंपूर्तौ मन्त्री
दिनशः संपूजयेच्च नरसिंहम्।।23.14।।

विधाय तद्बीजविशिष्टकर्णिकं

चतुश्चतुर्वर्णलसद्दलाष्टकम्।

सुलक्षितं मण्डलमन्यलक्षणै
र्निधाय तस्मिन्कलशं प्रपूर्य च।।23.15।।

यथोक्तमार्गेण समर्च्य साष्टकं

सहस्रसंख्यं प्रजपेन्मनुं ततः।

त्रिरुच्चरन्मन्त्रमथाभिषेचये
द्यमेष मृत्योर्विनिवर्तते मुखात्।।23.16।।

वर्णान्तानलभुवना

र्धेन्दुभिरुक्तं नृसिंहबीजमिदम्।

तन्नास्ति सम्यगमुना
मन्त्रविदा साधितेन यदसाध्यम्।।23.17।।

विभवानुरूपतोऽस्मै

दातव्या दक्षिणा च निजगुरवे।

प्राणप्रदानकर्त्रे
न तु कार्यं वित्तशाठ्यममलधिया।।23.18।।

संप्रीणयित्वा गुरुमात्मशक्त्या

संभोजयेद्विप्रवरान्यथावत्।

स त्वैहिकीं सिद्धिमवाप्य शुद्धं
परं परत्रापि पदं समेति।।23.19।।

दूर्वात्रिकैरष्टसहस्रसंख्यै

राराध्य मन्त्री जुहुयादथाप्सु।

शान्तिं प्रयान्त्येव तदोपसर्गा
आपो हि शान्ता इति च श्रुतिः स्यात्।।23.20।।

उत्पाते महति सति ह्युपद्रवाणां

होमोऽयं भवति च शान्तिदो नराणाम्।

यद्वान्यन्निजमनसेप्सितं च कामं
तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात्।।23.21।।

दुःस्वप्नेष्वपि दृष्टे

ष्ववशिष्टा जाग्रता निशा नेया।

जपमानमन्त्रशक्त्या
सुस्वप्नो भवति तत्क्षणादेव।।23.22।।

चरन्वने दुष्टमृगाहिचोर

व्यालाकुले मन्त्रममुं जपेद्यः।

असाधितं साधितमेव तस्य
न विद्यते भीर्बहुरूपजाता।।23.23।।

जप्तेनाष्टसहस्रं

कलशेनाप्यहिविषार्तमभिषिञ्चेत्।

अतिविषमेण विषेणा
प्यसौ विमुक्तः सुखी भवति।।23.24।।

मूषिकलूतावृश्चिक

बहुपादाद्युत्थितं विषं शमयेत्।

अष्टोत्तरशतजापा
न्मनुरयमभिमन्त्रितं च भस्माद्यम्।।23.25।।

सशिरोक्षिकण्ठदद्गल

कुक्षिरुजाज्वरविसर्पवमिहिक्काः।

मन्त्रौषधाभिचारक
कृतान्विकारानयं मनुः शमयेत्।।23.26।।

नरहरिवपुषात्मना गृहीतं

हरिणशिशुं निजवैरिणं विचिन्त्य।

क्षिपतु गगनतः क्षितौ सुदूरं
यमनुदिनं प्रतिचाट्यते समासात्।।23.27।।

यां च दिशं प्रति मनुना

क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात्।

पुत्रकलत्रधनादीं
स्त्यक्त्वा त्वपुनर्निवृत्तये सहसा।।23.28।।

नरहरिवपुषात्मना निजारिं

नखरखराग्रसमग्रभिन्नदेहम्।

क्षणमिव निहतं विचिन्त्य खाद
न्निव जपतां मनुमेष नाशमेति।।23.29।।

पूर्वतरे मृत्युपदे

विधाय निजसाध्यनाम मन्त्रितमः।

क्रूरेण चक्षुषा तं
दहन्निवालोक्य जपतु सप्तदिनम्।।23.30।।

दिनशोऽष्टोर्ध्वसहस्रं

म्रियते रिपुरस्य नात्र संदेहः।

मारणकर्म न शस्तं
क्रियते यद्ययुतमथ जपेच्छान्त्यै।।23.31।।

वश्याकृष्टिद्वेषण

मोहोच्चाटादिकानि यदि वाञ्छेत्।

तदर्हया प्रतिपत्त्या
तत्तत्कर्म प्रसाधयेन्मन्त्री।।23.32।।

दिनमनु दिननाथं पूजयित्वा दिनादौ

नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री।

तदनु तदनुमत्या भस्मना मन्त्रितेन
प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम्।।23.33।।

न्यासोक्तेषु स्थाने

ष्वपि न्यसेद्भस्मना समन्त्रार्णम्।

अखिलोपद्रवशान्त्यै
संपत्त्यै वाञ्छितार्थसंसिद्ध्यै।।23.34।।

अथ परराष्ट्रजयेच्छो

राज्ञः कुर्यात्प्रयोगविधिमेवम्।

नरहरिमपि विधिना तं
हिरण्यकशिपुद्विषं समभ्यर्च्य।।23.35।।

तस्य पुरस्ताद्विधिव

न्निधाय वह्निं विभीततरुकाष्ठैः।

उज्ज्वलिते च ज्वलने

समूलतूलैः शरेध्मदशशतकैः।।

खादन्निवोच्चरन्मनु
मरींश्च भिन्दन्निव क्षिपेत्समिधः।।23.36।।

हुत्वा परराष्ट्रेभ्यः

पृतनां संनाह्य च पुरस्तस्याः।

निघ्नन्तं रिपुसेनां
स्मरन्नृसिंहं पुरेव दितितनयात्।।23.37।।

यावज्जितारिरेष्यति

नृपतिस्तावज्जपेत्स्मरन्नेवम्।

सेन्द्रसुरासुररक्षो
यक्षानपि जयति का कथा मनुजे।।23.38।।

श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै

स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः।

पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं
दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी।।23.39।।

ब्राह्मीं वचां वाष्टशताभिजप्तां

प्रातः समद्यान्नृहरिं विचिन्त्य।

संप्राप्य मेधां स तु वेदशास्त्र
निष्णातधीः स्यादपि वासरेण।।23.40।।

उक्तैः किमत्र बहुभिर्मनुनामुनैव

संप्रार्थितं सकलमेव लभेद्विधिज्ञः।

तस्मादमुं भजत तत्प्रतिपन्नचित्ताः
संसारसागरसमुत्तरणार्थिनो ये।।23.41।।

पाशाङ्कुशान्तरितशक्तिनृसिंहबीजै

र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः।

ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा
वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम्।।23.42।।

अव्यान्निर्व्याजरौद्राकृतिरभिविवृतास्याल्लेसत्तीक्ष्णदंष्ट्र

श्चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्यान्दघानः।

रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः।।23.43।।

हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः

सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च।

वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त
द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम्।।23.44।।

इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा

क्समभिहितकषायाम्भोभिरापूर्य कुम्भम्।

प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै
स्तदनु मखशताद्यैः साधुवज्रादिकैश्च।।23.45।।

रथचरणशङ्खपाशा

ङ्कुशकुलिशगदाह्वयानि चास्त्राणि।

दारुणमुद्राकरयो
र्ययोस्तदीयौ कृपाणखेटाख्यौ।।23.46।।

इति कृतदीक्षः प्रजपे

दक्षरलक्षप्रमाणकं मन्त्रम्।

जुहुयाच्च षट्सहस्रं
जपावसाने घृतेन शुद्धेन।।23.47।।

खरमञ्जरीसमुत्थं

जुहुयादथ मञ्जरीसहस्रतयम्।

प्रस्नातपञ्चगव्यं
सप्तदिनं भूतशान्तये मन्त्री।।23.48।।

छिन्नरुहां समिधां त्रिसहस्रं

यश्च जुहोति चतुर्दिनमात्रम्।

दुग्धयुजं नचिरान्मनुजानां
होमविधिर्ज्वरशान्तिकरः स्यात्।।23.49।।

अस्य यन्त्रमभिलिख्य भूर्जके

साधु चाथ तृणराजपत्रके।

मन्त्रजप्तमपि शीर्षबन्धना
ज्जूर्तिविभ्रमशिरोरुजापहम्।।23.50।।

रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै

र्यो वा जुहोति नियमेन सहस्रसंख्यैः।

मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
स्याद्वत्सरेण धनधान्यसमृद्धगेहः।।23.51।।

आरक्तैस्तरणिसहस्रकं प्रफुल्लै

रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति।

लक्ष्मीः स्यादथ महती महत्तथायुः
संप्राप्तः सकलजगत्प्रियश्च भूयात्।।23.52।।

लाजाभिस्त्रिमधुरसंयुताभिरह्नो

मासार्धं प्रतिजुहुयान्मुखे सहस्रम्।

कन्यार्थी प्रतिलभते वरोऽथ कन्यां
कन्या वा भवति वरार्थिनी वराढ्या।।23.53।।

तिलैः सराजीखरमञ्जरीसमि

द्धविर्घृतैश्च द्विसहस्रसंख्यकैः।

प्रजुह्वतो नैव रुजा ग्रहोद्भवा
न चाभिचारक्षतिरस्य जायते।।23.54।।

दशाधिकशतैः पयोघृतयुतैश्च दूर्वात्रयै

र्हुनेद्दिनमुखेऽपि यो नरहरिं विचिन्त्यानले।

अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
सुखी भवति मानवो निजकलत्रपुत्रादिभिः।।23.55।।

विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं

लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः।

द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः।।23.56।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोविंशः पटलः।।