Comprehensive Texts

अथोच्यते श्रीकरनामधेय

मष्टाक्षरं लोकहिताय तावत्।

येन प्रजप्तेन समर्चितेन
हुतेन सिद्धिं समुपैति मन्त्री।।22.1।।

सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं

श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः।

ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै
र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः।।22.2।।

मूर्धाक्षिकण्ठहृदयोदरसोरुजानु

पादद्वयेषु लिपिशो न्यसतु स्वदेहे।

विप्रादिकान्मुखकरोरुपदेषु वर्णां
श्चक्रादिकानपि करेषु ततस्तदस्त्रान्।।22.3।।

दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो

भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः।

दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः।।22.4।।

दिक्पत्रेषु श्रीरति

धृतिकान्तीः कोणकेषु मूर्तीश्च।

इष्ट्वाभितो निधीशौ
विष्वक्सेनं च दिक्पतीन्प्रयजेत्।।22.5।।

आराध्य चैवं विधिना च विष्णुं

मन्त्री पुनर्होमविधिं करोतु।

श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः
साज्येन दौग्धेन च सर्पिषा च।।22.6।।

पृथगष्टशतं क्रमेण हुत्वा

कनकाद्यैरपि तर्पिते गुरौ च।

अभिषिच्य तथाभिपूज्य विप्रा
न्मनुमेनं प्रजपेदथाष्टलक्षम्।।22.7।।

द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै

राचार्यं पुनरपि पूजयेज्जपान्ते।

संप्राप्नोत्यपरिमितां श्रियं च कीर्त्ति
कान्तिं वा चिरमनुरज्यते च लोकैः।।22.8।।

दूर्वां घृतप्रसिक्तां

जुहुयादयुतं नरस्तु हुतशिष्टैः।

आज्यैश्चरुमुपयुञ्ज्या
द्दद्याद्गुरवे च दक्षिणां शक्त्या।।22.9।।

परिपूजयेच्च विप्रां

स्तेषु दिनेषु स्वशक्तितो भक्त्या।

अपमृत्युरोगपापा
न्विजित्य स तु दीर्घमायुराप्नोति।।22.10।।

अनुदिनमादित्यमुखः

प्रजपेदूर्ध्वीकृतस्वबाहुयुगः।

तस्य गृहेऽन्नसमृद्धि
श्चिराय संजायते सुपुष्टतरा।।22.11।।

एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं

भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण।

इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः।।22.12।।

अथ कथयामि विधानं

महावराहाभिधानमन्त्रस्य।

साङ्गं सजपं सहुता
राधनमपि मन्त्रिणामभीष्टाप्त्यै।।22.13।।

वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा

येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते।

देहीत्याभाष्य दान्तः सुमतिरथ पुनर्दापयस्वेति हान्तं
प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यस्त्रिंशदर्णम्।।22.14।।

ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम्।
वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम्।।22.15।।

अस्यैकश्रृङ्गो हृदयं शिरश्च

व्योमोल्कतेजोऽधिपतिः शिखा च।

स्याद्विश्वरूपं कवचं महाद्यो
दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम्।।22.16।।

सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः।
अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम्।।22.17।।

जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः

कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम्।

मौलेर्व्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श
क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम्।।22.18।।

सजलाम्बुवाहनिभमुद्धतदोः

परिघं धराधरसमानतनुम्।

सितदंष्ट्रिकाधृतभुवं त्वथ वा
प्रविचिन्तयेत्सपदि कोलमुखम्।।22.19।।

हेमप्रख्यं पार्थिवे मण्डले वा

नीहाराभं नीरजेऽग्नेस्तदाभम्।

वायोः कृष्णं द्युप्रभं वा दिविस्थं
क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा।।22.20।।

अष्टपत्रमथ पद्ममुल्लस

त्कर्णिकं विधिवदारचय्य च।

मण्डले रविसहस्रसंनिभं
सूकरं यजतु तत्र सिद्धये।।22.21।।

प्राग्दक्षिणप्रत्यगुदग्दिशासु

चत्वारि चाङ्गानि यजेत्क्रमेण।

अस्त्रं विदिक्षूर्ध्वमधश्च चक्रा
द्यस्त्राणि पूज्यानि वराहमूर्तेः।।22.22।।

अरिशङ्खकृपाणखेटसंज्ञा

न्सगदाशक्तिवराभयाह्वयांश्च।

अभिपूज्य दिशाधिपान्यथाव
द्वरगन्धाक्षतपुष्पधूपदीपैः।।22.23।।

दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृतौ

वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः।

कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः
पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शंकरः।।22.24।।

एवं काले कोलमभ्यर्चयित्वा

जप्यो मन्त्रोऽसौ पुनर्लक्षसंख्यम्।

होमं कृत्वा तद्दशांशैश्च पद्मै
स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम्।।22.25।।

ध्यानादपि धनसिद्धि

र्मन्त्रजपाच्चाधरो भवेत्सधरः।

जपपूजाहुतविधिभि
र्मङ्क्षु नरो धनधरेन्दिरावान्स्यात्।।22.26।।

ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै

राग्नेये वश्यकीर्त्त्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन्।

रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां
युद्धे वह्नीरयोर्वै जयमपि नितरां संनिधत्ते वराहः।।22.27।।

हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा

सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम्।

उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता
मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति।।22.28।।

भौमे वारेऽथ भानूदयमनु जपवान्संगृहीत्वा मृदंशं

कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम्।

एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं
तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे।।22.29।।

आराध्य चाष्टोर्ध्वशतप्रमाणं

साज्येन मन्त्री हविषाथ तेन।

सत्पारवारं जुहुयाद्यथाव
त्क्षेत्रोत्थितापत्प्रशमं प्रयाति।।22.30।।

भृगुवारे च मुखेऽह्नः

संगृह्य मृदं हविः समापाद्य।

जुहुयादीरितविधिना
बलिमपि दद्यान्महाविरोधेषु।।22.31।।

हुतक्रियैवं दिवसैश्च सप्तभि

र्विनाशयेद्भूमिविवादसंकटम्।

परेतवेतालपिशाचडाकिनी
समुत्थितां वा विकृतिं विधिस्त्वयम्।।22.32।।

विलोड्य तामेव मृदं च दुग्धे

हुनेद्धृते वाप्टयुतं सहस्रकम्।

द्विमण्डलादेव मही महार्घ्या
स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना।।22.33।।

नृपतरुसमिधामयुतं

मन्त्रेणानेन यो हुनेन्मन्त्री।

गृहयात्रास्य न सीदे
त्क्षेत्रादिकमपि च वर्धते क्रमशः।।22.34।।

अष्टोर्ध्वशतं मन्त्री

दिनशो यो वा जुहोति शालीभिः।

स तु वत्सरेण मन्त्री
विराजते व्रीहिपुञ्जपूर्णगृहः।।22.35।।

मन्त्रेणानेन सर्पिर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः

स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च।

लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः
सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा।।22.36।।

दण्ड्यर्धीशो व्योमा

सनस्तु वाराहमुच्यते बीजम्।

अमुना तु साधितेन
प्राप्स्यन्ति नराः समृद्धिमतुलतराम्।।22.37।।

तारेऽमुमपि लिखित्वा

तद्बाह्येऽनलपुरं समापुटितम्।

तद्बाह्ये च चतुर्दल
मब्जं स्यात्तद्बहिस्तथाष्टदलम्।।22.38।।

बाह्ये षोडशपत्रं

मण्डलमाखण्डलीयमपि बाह्ये।

मध्ये सूकरबीजे
साध्यक्षेत्राख्यमन्त्रमश्रिषु च।।22.39।।

रन्ध्रेष्वङ्गमनूनपि

दलमूलेऽष्टार्णकेसराणि लिखेत्।

अष्टावष्टौ दलमनु
सूकरमन्त्रस्य चाक्षरान्क्रमशः।।22.40।।

अन्त्येऽवशिष्टमक्षर

मथाष्टपत्रे स्वराख्यकिञ्जल्के।

वर्णांश्चतुश्चतुरपि
तथाष्टमे पञ्च चालिखेत्पत्रे।।22.41।।

व्यञ्जनकिञ्जल्केऽन्त्ये

द्वौ द्वौ त्रयमन्त्यके दले विलिखेत्।

ताहमहीकोलार्णैः
प्रवेष्टयेत्साध्यवर्णपरिपुटितैः।।22.42।।

तद्बाह्ये मनुवर्णै

र्विदर्भिताभिश्च साध्यपदलिपिभिः।

क्ष्माबिम्बचतुष्कोणे
गर्भगसाध्याक्षरं चतुर्बीजम्।।22.43।।

अष्टसु शूलेषु तथा

वाराहं वासुसेनसंवृत्तम्।

लाक्षाकुङ्कुमचन्दन

लघुकर्पूरैः सरोचनैर्विलिखेत्।।

गोशकृदम्भोयुक्तै
र्लेखिन्या हैमया दिने प्रवरे।।22.44।।

सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे

साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम्।

क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां
यन्त्रं संजप्तक्लृप्तं घृतहुतकृतसंपातपातं करोति।।22.45।।

मन्त्री समास्थाय वराहरूपं

साध्यप्रदेशे निखनेच्च यन्त्रम्।

स्थिराख्यराशावभिवाह्य कोल
मङ्गानि दिक्षु क्षिपतां यथावत्।।22.46।।

यन्त्रमिदं रक्षायै

रोगग्रहवैकृतेषु जन्तूनाम्।

संजप्य शिरसि बन्ध्या
त्स तु नीरोगस्त्वयत्नतो भवति।।22.47।।

इत्येवं प्रणिगदितो वराहमन्त्रो

यस्त्वेनं प्रभजति नित्यशो जपाद्यैः।

स प्राप्नोत्यखिलमहीसमृद्धिमस्मि
न्देहान्ते व्रजति हरेः परं पदं तत्।।22.48।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वाविंशः पटलः।।