Comprehensive Texts

अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं

सकलदुरितदुःखध्वान्तसंभेदभानुम्।

प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
मपर इति समुद्दिष्टोऽयमिष्टार्थदायी।।19.1।।

तारः शक्त्युत्थतया

निर्दिष्टः सोऽहमर्थकः पूर्वम्।

नार्णः प्रतिषेधार्थो
मोकारश्चायमर्थको भवति।।19.2।।

सलिलानलपवनधराः

क्रमेण नारायणाक्षराः प्रोक्ताः।

चरमेरस्तु विभक्ति
व्यक्त्यर्थं दर्शितस्तदर्थार्थे।।19.3।।

ऋषिरस्य मनोः साध्यनारायण इतीरितः।
छन्दश्च देवी गायत्री परमात्मा च देवता।।19.4।।

अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः।
उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात्।।19.5।।

अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः।
सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके।।19.6।।

अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज

त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च।

नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्वं
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम्।।19.7।।

संदीक्षितो मनुममुं प्रतिजप्तुमिच्छ

न्कुर्यान्निजेन वपुषैव तु योगपीठम्।

अंसोरुयुग्मपदमानननाभिमूल
पार्श्वद्वयैर्विहितगात्रसमुज्ज्वलं च।।19.8।।

मध्येऽनन्ताद्यैरपि

संज्ञानात्मान्तिकैर्यजेन्मन्त्री।

पीठाख्यमन्त्रपश्चिम
मथ गन्धाद्यैश्च सम्यगुपचारैः।।19.9।।

प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम्।
विष्णवे च समाभाष्य सर्वभूतात्मनेपदम्।।19.10।।

वासुदेवाय सर्वात्मसंयोगपदमुच्चरेत्।
योगपद्मपदं प्रोक्त्वा ततः पीठात्मने नमः।।19.11।।

अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत्।
विन्यस्तैर्यैर्भवेन्मन्त्री मन्त्रवर्णात्मको हरिः।।19.12।।

आधारहृद्वदनदोःपदमूलनाभौ

कण्ठे सनाभिहृदयस्तनपार्श्वपृष्ठे।

कास्येक्षणश्रवणगन्धवहे च दोःप
त्संध्यङ्गुलीषु हृदि धातुषु सानिलेषु।।19.13।।

मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा

पादद्वयेषु लिपिशो न्यसतु क्रमेण।

गण्डांसकोरुचरणेषु रथाङ्गशङ्ख
श्रीमद्गदाम्बुजपदेषु समाहितात्मा।।19.14।।

ततोऽष्टाक्षरपूर्त्यर्थं स्मर्तव्यो द्वादशाक्षरः।
मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नास्तनौ न्यसेत्।।19.15।।

अष्टप्रकृत्यात्मकश्च संप्रोक्तोऽष्टाक्षरो मनुः।
अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि।।19.16।।

द्वादशानां तु संयोगो मन्त्रः स्याद्द्वादशाक्षरः।
आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः।।19.17।।

केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः।
आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः।।19.18।।

ललाटोदरहृत्कण्ठदक्षपार्श्वांसतद्गले।
तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम्।।19.19।।

द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत्।
मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम्।।19.20।।

पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत्।
किरीटकेयूरहारपदान्याभाष्य मन्त्रवित्।।19.21।।

मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम्।
अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च।।19.22।।

श्रीवत्साङ्कितमाभाष्य वक्षःस्थलमथो वदेत्।
श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत्।।19.23।।

दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे।
हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम्।।19.24।।

कृत्वा स्थण्डिलमस्मि

न्निक्षिप्य निजासिकां समुपविश्य।

पीठादिकं निजाङ्गे
प्रपूज्य गन्धादिभिः सुशुद्धमनाः।।19.25।।

सद्वादशाक्षरान्तं

प्रपूज्य विधिवत्किरीटमन्त्रेण।

कुर्यात्पुष्पाञ्जलिमपि
निजदेहे पञ्चशोऽथ वा त्रयशः।।19.26।।

इति दीक्षितविहितविधिः

संप्रोक्तोऽष्टाक्षरस्य मन्त्रस्य।

शुद्धानां विमलधियां
दीक्षा प्रतिवक्ष्यतेऽथ संक्षेपात्।।19.27।।

कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम्।
आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत्।।19.28।।

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः।
प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा।।19.29।।

निधाय कलशं तत्र पञ्चगव्येन पूरयेत्।
पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टगन्धकैः।।19.30।।

अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः।

दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात्।
सशक्तिकांस्ततो बाह्ये संपूज्या हरिहेतयः।।19.31।।

चक्रसशङ्खगदाम्बुज

कौस्तुभशार्ङ्गाः सखङ्गवनमालाः।

रक्ताच्छपीतकनक
श्यामलकृष्णद्युशुक्लभासः स्युः।।19.32।।

ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः।
विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः।।19.33।।

ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ।
अरुणश्यामलश्यामपीता विघ्नादयो मताः।।19.34।।

इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात्।
इति विष्णोर्विधानं तु पञ्चावरणमुच्यते।।19.35।।

एवमभ्यर्चिते विष्णावुपचारैस्तु पूर्ववत्।
अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः।।19.36।।

जुहुयादष्टभिर्द्रव्यैर्मनुनाष्टाक्षरेण तु।
पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः।।19.37।।

अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम्।

द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः।
तदर्धसंख्यकं वापि शुद्धाचारो जितेन्द्रियः।।19.38।।

पद्मासनः प्राग्वदनोऽप्रलापी

तन्मानसस्तर्जनिवर्जिताभिः।

अक्षस्रजो वाङ्गुलिभिर्जपेत
नातिद्रुतं नातिविलम्बितं च।।19.39।।

प्रागीरितैरपि जुहोतु दशांशकं वा

द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा।

रत्नांशुकप्रवरकाञ्चनगोमहीभि
र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च।।19.40।।

विप्रान्प्रतर्प्य विभवैरथ मन्त्रजापी

संह्लादयेज्जपविधिं च ततः क्रमेण।

नित्यार्चना च विहिता विधिनामुनैव
प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम्।।19.41।।

इति जपहुतार्चनाद्यै

र्मन्त्री योऽष्टाक्षरं समभ्यस्येत्।

स त्वैहिकीं च सिद्धिं
संप्राप्यान्ते प्रयाति परमपदम्।।19.42।।

अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः

सकेशवादींश्च पुरंदरादीन्।

समर्चयेद्यस्तु विधानमेत
न्नरोऽचिरात्काङ्क्षितमेति कामम्।।19.43।।

यष्टव्यः स्याद्वासुदेवादिरादौ

चक्राद्याः केत्वादिकाः केशवाद्याः।

इन्द्राद्याश्चेत्येवमेव प्रदिष्टं
तुष्ट्यायुःश्रीकीर्त्तिसिद्ध्यै विधानम्।।19.44।।

स वासुदेवादिकमर्चयित्वा

भूयो ध्वजादींश्च पुरंदरादीन्।

क्रमेण विद्वान्विधिनार्चयीते
त्ययं क्रमश्च त्रिदशाभिपूज्यः।।19.45।।

इत्युक्तविधिचतुष्के

पूजयितुरथैकमपि यथाशक्ति।

अचिरेण भवति लक्ष्मी
र्हस्तगता सकलवर्गसिद्धिकरी।।19.46।।

अष्टाक्षराक्षराष्टक

मूर्तिविधानानि भेदभिन्नानि।

वक्ष्याम्यर्चयितृ़णां
वाञ्छितसकलार्थसाधनानि सदा।।19.47।।

सिन्दूरकुन्दकरविन्दकबन्धुजीव

काश्मीरपद्ममकरन्दरुचः क्रमेण।

नीलोत्पलाम्बुरुहरागसमानवर्णाः
स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः।।19.48।।

अरिदरगदाब्जहस्ताः

सर्वास्तु नकारमोर्णयोर्मन्त्री।

शङ्खारिगदाब्जकरे
लक्षणमन्यत्समानरूपं स्यात्।।19.49।।

या मूर्तिरर्च्यतेऽस्य

व्रजन्ति परिवारितां तदवशिष्टाः।

अवशिष्टेऽन्त्येऽथांशे
स्वयं च परिवारितां प्रयाति तदा।।19.50।।

इयमेवावृतिरधिका

ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात्।

भवति विधानादिति पुन
रेषां प्रथमं विधानमुद्दिष्टम्।।19.51।।

अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते

वर्णाष्टमूर्तीरपि मूर्तिशक्तीः।

यजेद्विधाने च सकेतुलोक
पालादिकानुक्तविधानक्लृप्त्या।।19.52।।

मोकारजे रतिधृती च सकान्तितुष्टि

पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम्।

केत्वादिकं च सशतक्रतुपूर्वकं च
संपूजयेद्विमलधीः पुनरन्वितोऽन्ते।।19.53।।

नाकारजेऽङ्गतोऽन्ते

प्रपूजयेन्मूर्तिशक्तिलोकेशान्।

रावर्णजेऽङ्गमूर्ति
श्रीभूमायामनोन्मनीस्तदनु।।19.54।।

ह्रीः श्री रतिः सपुष्टि

र्मोहनिमाये महादियोगाद्ये।

माये च तृतीयावृति
रन्यदशेषं पुरैव निर्दिष्टम्।।19.55।।

यकारजेऽरिशङ्खौ च सगदाहलशार्ङ्गकाः।
मुसलः खङ्गशूलौ च तृतीया साक्षरोद्भवे।।19.56।।

शेषो वासुकितक्षक

कार्कोटकपङ्कजमहापद्माः।

वरपालगुलिकसंज्ञा
स्तृतीयमन्यत्समं विधानेऽन्त्ये।।19.57।।

अङ्गैः प्रथमावरणं

मूर्तिभिरपि शक्तिभिर्द्वितीयमपि।

अन्यैः केशवकेत्वा
दिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः।।19.58।।

मत्स्यः कूर्मवराहौ

नृसिंहकुब्जत्रिरामकृष्णाश्च।

कल्किः सानन्तात्मा
पुनरमृतात्मा च षष्ठमहिपाद्यैः।।19.59।।

सप्तममपि लोकेशै

रष्टममपि तदायुधैश्च संप्रोक्तम्।

प्रागुक्तेषु विधाने
ष्वालक्ष्यं नोक्तमत्र यत्तदपि।।19.60।।

अष्टाक्षराक्षरविधानचतुष्कयुग्मं

प्रोक्तक्रमेण विधिनाभियजेद्य एनम्।

भक्त्या मुकुन्दमनुजापरतो नराग्र्यः
प्राप्नोति वाञ्छितमयत्नत एव कामम्।।19.61।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकोनविंशः पटलः।।