Comprehensive Texts

अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम्।
हिताय मन्त्रिणां सार्घ्यविधानं च समासतः।।15.1।।

भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः।
विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः।।15.2।।

दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात्।
विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम्।।15.3।।

अमलकमलसंस्थः सुप्रसन्नाननेन्दु

र्वरदकुमुदहस्तश्चारुहारादिभूषः।

स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो
भवतु भवदभीष्टोद्द्योतिताङ्कः शशाङ्कः।।15.4।।

दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी।
पञ्चमीदशमीपञ्चदशीषु तु विशेषतः।।15.5।।

अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यर्च्य भाधिपम्।
पयोन्नेन हुनेद्भूयः सघृतेन सहस्रकम्।।15.6।।

ससर्पिषा पायसेन षट्सहस्रं हुनेत्ततः।
पीठक्लृप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम्।।15.7।।

केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत्।
रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा।।15.8।।

रात्रिमार्द्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत्।
दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम्।।15.9।।

सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा।
शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः।।15.10।।

सितमाल्याम्बरालेपा रचिताञ्जलयो मताः।
इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत्।।15.11।।

त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युंजयो भवेत्।
हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम्।।15.12।।

राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिंचनः।
आहाराचारनिरतो जपेल्लक्षचतुष्टयम्।।15.13।।

असंशयतरं तेन निधानमुपलभ्यते।
घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः।।15.14।।

तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः।
नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः।।15.15।।

जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये।
त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम्।।15.16।।

आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत्।
पूर्वस्मिन्पङ्कजोपेते पूर्ववत्सोममर्चयेत्।।15.17।।

राकायामुदये राज्ञो निजकार्यं विचिन्तयेत्।
संस्थाप्य राजतं तत्र चषकं परिपूरयेत्।।15.18।।

गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम्।
अष्टोत्तरशतावृत्त्या दद्यादर्घ्यमथेन्दवे।।15.19।।

विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना।
विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी।।15.20।।

चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम्।
प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम्।।15.21।।

इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम्।

अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून्।
सोमार्घ्यदाता लभते दीर्घमायुश्च विन्दति।।15.22।।

इति सोममन्त्रसिद्धिं

प्रणिगदितः संग्रहेण मन्त्रविदाम्।

उपकृतयेऽमितलक्ष्म्यै
मेधायै प्रेत्य चेह संपत्त्यै।।15.23।।

अथाग्निमन्त्रान्सकलार्थसिद्धि

करान्प्रवक्ष्ये जगतो हिताय।

सर्ष्यादिक्लृप्तीनपि साङ्गभेदा
न्सार्चाविशेषान्सजपादिकांश्च।।15.24।।

वियतो दशमोऽर्घिसर्गयुक्तो

भुवसर्गौ भृगुलान्तषोडशाचः।

हुतभुग्दयिता ध्रुवादिकोऽयं
मनुरुक्तः सुसमृद्धिदः कृशानोः।।15.25।।

भृगुरपि तदृषिश्छन्दो

गायत्री देवताग्निरुद्दिष्टः।

प्राक्प्रोक्तान्यङ्गानि
विशः समुक्तैश्च मन्त्रवाक्यैर्वा।।15.26।।

शक्तिस्वस्तिकपाशा

न्साङ्कुशवरदाभयान्दधत्ित्रमुखः।

मकुटादिविविधभूषो
ऽवताच्चिरं पावकः प्रसन्नो वः।।15.27।।

जपेदिमं मनुमृतुलक्षमादरा

द्दशांशतः प्रतिजुहुयात्पयोन्धसा।

ससर्पिषाप्यसिततरैश्च षाष्टिकैः
समर्चयेदथ विधिवद्विभावसुम्।।15.28।।

पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी।
रुचिरा कालिनी चेति कृशानोर्नव शक्तयः।।15.29।।

पीठे तनूनपातः

प्रागङ्गैरष्टमूर्तिभिस्तदनु।

भूयश्च शतमखाद्यै
र्विधिनाथ हिरण्यरेतसं प्रयजेत्।।15.30।।

आज्यैरष्टोर्ध्वशतं

प्रतिपदमारभ्य मन्त्रविद्दिनशः।

चतुरो मासाञ्जुहुया
ल्लक्ष्मीरत्यायता भवेत्तस्य।।15.31।।

शुद्धाभिः शालीभि

र्दिनमनुजुहुयात्तथाब्दमात्रेण।

शालीशालि गृहं स्या
द्गोमहिषाद्यैश्च संकुलं तस्य।।15.32।।

शुद्धान्नैर्घृतसिक्तैः

प्रतिदिनमग्नौ समेधिते जुहुयात्।

अन्नसमृद्धिर्महती
स्यादस्य निकेतनेऽब्दमात्रेण।।15.33।।

जुहुयात्तिलैः सुशुद्धैः

षण्मासाज्जायते महालक्ष्मीः।

कुमुदैः कह्लारैरपि
जातीकुसुमैश्च जायते सिद्धिः।।15.34।।

पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै

र्दुग्धोर्वीरुहसंभवैः खदिरजैर्व्याघातवृक्षोद्भवैः।

दूर्वाख्यैश्च शमीविकङ्कतभवैरष्टोर्ध्वयुक्तं शतं
नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये।।15.35।।

तारं व्याहृतयश्चाग्निर्जातवेद इहावह।
सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनुः।।15.36।।

ऋष्याद्याः पूर्वोक्ता

मन्त्रेणाङ्गानि वर्णभिन्नेन।

भूतर्तुकरणसेन्द्रिय
गुणयुग्मैर्जातिभेदितैस्तदपि।।15.37।।

अथ वा शक्तिस्वस्तिक

दर्भाक्षस्रक्स्रुवस्रुगभयवरान्।

दधदमिताकल्पो यो
वसुरवतात्कनकमालिकालसितः।।15.38।।

वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः।
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः।।15.39।।

अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः।
समिदाद्यममावास्यां परिशोध्य यथाविधि।।15.40।।

ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः।
परेऽह्नि प्रतिपद्येतैर्जुहुयादर्चितेऽनले।।15.41।।

मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः।
अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात्।।15.42।।

दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ।
शक्त्या प्रतर्प्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम्।।15.43।।

सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम्।
पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत्।।15.44।।

विधिनेति विधातुरग्निपूजा

मचिरेणैव भवेन्महासमृद्धिः।

धनधान्यसुवर्णरत्नपूर्णा
धरणी गोवृषपुत्रमित्रकीर्णा।।15.45।।

प्रजपदथ वा सहस्रसंख्यं

दिनशो वत्सरतो भवेन्महाश्रीः।

जुहुयात्प्रतिवासरं शताख्यं
हविषाब्देन भवेन्महासमृद्धिः।।15.46।।

पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं

नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत्।

षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा
होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत्।।15.47।।

उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य

प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण।

भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विशदर्णः
प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः।।15.48।।

ऋष्याद्याः स्युः पूर्वव

दृतुभूतदिशात्रिकरणयुगलार्णैः।

मूलमनुनाथ कुर्या
दङ्गानि क्रमश एव मन्त्रितमः।।15.49।।

हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं

वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः संततम्।

ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसंभेदनं
वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम्।।15.50।।

जप्याच्च लक्षमानं

मन्त्री संदीक्षितोऽथ मनुमेनम्।

जुहुयाच्च तदवसाने
घृतसिक्तैः पायसैर्दशांशेन।।15.51।।

अङ्गैर्हुतवहमूर्तिभि

राशेशैः संयजेत्तदस्रैश्च।

पावकमिति मन्त्रितमो
गन्धाद्यैरनुदिनं तदुपहारैः।।15.52।।

दिनावतारे मनुमेनमन्वहं

जपेत्सहस्रं नियमेन मन्त्रवित्।

अधृष्यतायै यशसे श्रिये रुजां
विमुक्तये युक्तमतिस्तथायुषे।।15.53।।

शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं

गन्धाद्यैः परिपूज्य तेन हविषा संवर्त्य पिण्डं महत्।

आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि
त्साष्टोर्ध्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात्।।15.54।।

अष्टोत्तरं शतमथो मृगमुद्रयैव

मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः।

साज्यैर्भवेन्न खलु तत्र विचारणीयं
संवत्सरात्स च निकेतनमिन्दिरायाः।।15.55।।

अष्टोर्ध्वशतं हविषा

मन्त्रेणानेन नित्यशो जुहुयात्।

षण्मासादाढ्यतमो
भवति नरो नात्र संदेहः।।15.56।।

शालीभिः शुद्धाभिः

प्रतिदिनमष्टोत्तरं शतं जुहुयात्।

धनधान्यसमृद्धः स्या
न्मन्त्री संवत्सरार्धमात्रेण।।15.57।।

आज्यैरयुतं जुहुया

त्प्रतिमासं प्रतिपदं समारभ्य।

अतिमहती लक्ष्मीः स्या
दस्य तु षण्मसितो न संदेहः।।15.58।।

अरुणैः पुनरुत्पलैः शतं यो

मधुराक्तैः प्रजुहोति वत्सरार्धम्।

मनुनाप्यमुना दशाधिकं स
प्रलभेन्मङ्क्षु महत्तरां च लक्ष्मीम्।।15.59।।

जातीपलाशकरवीरजपाख्यबिल्व

व्याघातकेसरकुरण्डभवैः प्रसूनैः।

एकैकशः शतमथो मधुरत्रयाक्तै
र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात्।।15.60।।

खण्डैश्च सप्तदिनमप्यमृतालतोत्थै

र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः।

सम्यक्समर्च्य दहनं नचिरेण जन्तु
श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात्।।15.61।।

क्षीरद्रुमत्वगभिपक्वजलैर्यथाव

त्संपूर्य कुम्भमभिपूज्य कृशानुमत्र।

जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं
सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी।।15.62।।

पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ

न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम्।

स दुरितमपमृत्युं रोगजातांश्च हित्वा
व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः।।15.63।।

मनुनामुनाष्टशतजप्तमथ

प्रपिबेज्जलं ज्वलनदीपनकृत्।

गुरु भुक्तमप्युदरगं त्वमुना
परिजापितं पचति कुक्ष्यनलः।।15.64।।

हुनेदरुणपङ्कजैस्त्रिमधुराप्लुतैर्नित्यशः

सहस्रमृतुमासतः पृथुतरा रमा जायते।

प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा
द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम्।।15.65।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे पञ्चदशः पटलः।।