Comprehensive Texts

अथ कथयिष्ये मन्त्रं

चतुरक्षरसंज्ञकं समासेन।

प्रणवो भुवनाधीशो
दण्डिखमस्यादिको विसर्गान्तः।।14.1।।

ऋषिरस्याजश्छन्दो

गायत्रं देवता च भुवनेशी।

अङ्गानि षट् क्रमेण
प्रोक्तानि प्रणवशक्तिबीजाभ्याम्।।14.2।।

भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां

सम्यक्संतप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः।

विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा
भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः।।14.3।।

संदीक्षितोऽथ प्रजपेच्च मन्त्रं

मन्त्री पुनर्लक्षचतुष्कमेनम्।

पुष्पैस्तदन्ते द्विजवृक्षजातैः
स्वादुप्लुतैर्वा जुहुयात्सरोजैः।।14.4।।

मनोरथार्कात्मतया त्वनेन

प्रवर्त्यतेऽर्घ्येपहिता प्रपूजा।

समे सुमृष्टे रचयेद्विविक्ते
शुद्धे तले स्थण्डिलमङ्गणस्य।।14.5।।

प्रयजेदथ प्रभूतां

विमलां साराह्वयां समाराध्याम्।

परमसुखामग्न्यादि
ष्वश्रिषु मध्ये च पीठक्लृप्तेः प्राक्।।14.6।।

ह्रस्वत्रयक्लीबवियोजिताभिः

क्रमात्कृशान्विन्दुयुताभिरज्भिः।

सहाभिपूज्या नव शक्तयः स्युः
प्रोद्योतनाः प्राज्यतरप्रभावाः।।14.7।।

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा।
अमोघा विद्युता चैव नवमी सर्वतोमुखी।।14.8।।

ब्रह्माविष्णुशिवात्मकं

समीर्य सौराय योगपीठाय।

प्रोक्त्वेति नतिमपि पुनः
समापयेत्पीठमन्त्रमहिमरुचेः।।14.9।।

आवाह्य हार्ल्लेखिकमर्कमर्घ्य

पाद्याचमाद्यैर्मधुपर्कयुक्तैः।

प्रपूजयेदावरणैः समस्त
संपत्त्यवाप्त्यै तदधीनचेताः।।14.10।।

हृल्लेखाद्याः पञ्च च

यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात्।

ओंकाराद्यैराशा
पालैरभ्यर्चयेत्क्रमान्मन्त्री।।14.11।।

प्रतिपूज्य शक्तिमिति तत्र पुरः

प्रणिधाय ताम्ररचितं चषकम्।

प्रजपन्मनुं प्रतिगतक्रमतः
प्रतिपूरयेत्सुविमलैः सलिलैः।।14.12।।

अक्षतकुशयवदूर्वा

तिलसर्षपकुसुमचन्दनोपेतैः।

प्रस्थग्राह्यच्छिद्रं
स्वैक्यं संभावयन्समाहितधीः।।14.13।।

इष्ट्वा दिनेशमथ पीठगतं तथैव

व्योमस्थितं परिवृतावरणं विलोक्य।

अष्टोत्तरं शतमथ प्रजपेन्मनुं तं
पूर्वोत्तरं निजकरेण पिधाय पात्रम्।।14.14।।

भूयोऽभ्यर्च्य सुधामयं जलमथो तद्गन्धपुष्पादिभि

र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन्।

दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्यार्घ्यमोजोबल
ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते।।14.15।।

अथ कृतपुष्पाञ्जलिरपि

पुनरष्टशतं जपेन्मनुं मन्त्री।

यावद्रश्मिषु भानो
र्व्याप्नोत्यम्भः सुधामयं तदपि।।14.16।।

अमृतमयजलावसिक्तगात्रो

दिनपतिरप्यमृतत्वमातनोति।

धनविभवसुदारमित्रपुत्रं
पशुगणजुष्टमनन्तभोगयोगि।।14.17।।

तस्मादिनाय दिनशो ददताद्दिनादौ

दैन्यापनोदितनवे दिनवल्लभाय।

अर्घ्यं समग्रविभवस्त्वथ वार्कवारे
पारं स गच्छति भवाह्वयवारिराशेः।।14.18।।

अनुदिनमर्चयितव्यः

पुंसा विधिनामुनाथ वा रवये।

दद्यादर्घ्यद्वयमपि
कुर्याद्वा वाञ्छितार्थसमवाप्त्यै।।14.19।।

एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला

न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया।

सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना
नित्यं शुद्धमनन्यमक्षरपदं मन्त्री भवेद्योगतः।।14.20।।

अथ वदाम्यजपामनुमुत्तमं

सकलसंसृतियापनसाधनम्।

दुरितरोगविषापहरं नृणा
मिह परत्र च वाञ्छितसिद्धिदम्।।14.21।।

विष्णुपदं ससुधाकरखण्डं

चन्द्रयुगावधिकं वतुरीयम्।

क्षेत्रविदो मनुरेष समुक्तो
यं प्रजपत्यपि संततमात्मा।।14.22।।

ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः।
हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत्।।14.23।।

अरुणकनकवर्णं पद्मसंस्थं च गौरी(?)

हरनियमितचिह्नं सौम्य तानूनपातम्।

भवतु भवदभीष्टावाप्तये पाशाटङ्का
भयवरदविचित्रं रूपमर्धाम्बिकेशम्।।14.24।।

प्रजपेद्द्वादशलक्षं

मनुमिममाज्यान्वितैश्च दौग्धान्नैः।

तावत्सहस्रमानं
जुहुयात्सौरे समर्चनापीठे।।14.25।।

निक्षिप्य कलमस्मि

न्पूर्वोक्तानामपामथैकेन।

आपूर्य चोपचर्य च
विद्वानङ्गैः प्रपूजयेत्पूर्वम्।।14.26।।

ऋतवसुवरनरसंज्ञा

स्तथर्तवो बद्रिपूर्विकाजान्ताः।

आशोपाशास्थेया
स्ततो दिशापास्ततश्च वज्राद्याः।।14.27।।

इति परिपूज्य च कलशं

पुनरभिषिच्याथ नियमितोऽर्घ्यमपि।

दद्यादिनाय चैहिक
पारत्रिकसिद्धये चिरं मन्त्री।।14.28।।

इन्दुद्वयोदितसुधारसपूर्णसार्ण

संबद्धबिन्दुसुसमेधितमादिबीजम्।

संचिन्त्य यो मनुमिमं भजते मनस्वी
स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ।।14.29।।

व्योमानुगेन च सुधाम्बुमुचा सुदामा

प्रद्योतमानसविनिःसृतशीतरुग्भ्याम्।

आबाधिता दहनचन्द्रलसन्महोभ्यां
रोगापमृत्युविषदाहरुजः प्रयान्ति।।14.30।।

हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं

नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम्।

स्मृत्वा संजप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता
पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः।।14.31।।

विधाय लिपिपङ्कजं मनुयुतोल्लसत्कर्णिकं

निधाय घटमत्र पूरयतु वारिणा तन्मुखम्।

विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः
सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः।।14.32।।

नारी नरो वा विधिनाभिषिक्तो

मन्त्रेण तेनेति विषद्वयोढैः।

रोगैस्तदाधिप्रभवैर्वियुक्त
श्चिराय जीवेत्करणैः सुशुद्धैः।।14.33।।

करेण तेनैव जलाभिपूर्णं

प्रजप्य मन्त्री करकं पिधाय।

सुधायितैस्तैर्विषिणं निषिञ्चे
द्विषं निहन्यादपि कालकूटम्।।14.34।।

गदितं निजपाणितलं विषिणः

शिरसि प्रविधाय जलैः शितधीः।

अचिरात्प्रतिमोचयते विषतो
मतिमानथ तक्षकदष्टमपि।।14.35।।

इत्यजपामन्त्रविधिः

संप्रोक्तः संग्रहेण मन्त्रिवराः।

यं प्राप्य सकलवसुसुख
धर्मयशोभुक्तिमुक्तिभाजः स्युः।।14.36।।

अरुणा शिखिदीर्घयुता

हृलेखा श्वेतया युतानन्ता।

प्रोक्तः प्रयोजनानां
तिलकस्तु यथार्थवाचको मन्त्रः।।14.37।।

गुह्यादाचरणतलं

कण्ठादागुह्यमागलं कान्तान्।

विन्यस्य मन्त्रबीजा
न्क्रमेण मन्त्री करोतु चाङ्गानि।।14.38।।

मन्त्रस्य मध्यमनुना

दीर्घयुजाङ्गानि चेह कथितानि।

ध्यायेत्पुनरहिमकरं
मन्त्री निजवाञ्छितार्थलाभाय।।14.39।।

अरुणसरोरुहसंस्थ

स्त्रिदृगरुणोऽरुणसरोजयुगलधरः।

कलिताभयवरदो द्युति
बिम्बोऽमितभूषणस्त्विनोऽवतु वः।।14.40।।

कृतसंदीक्षो मन्त्री

दिनकरलक्षं जपेन्मनुं जुहुयात्।

तावत्सहस्रमन्नैः
सघृतैर्मधुराप्लुतैस्तिलैरथ वा।।14.41।।

प्रागभिहितेन विधिना

पीठाद्यं प्रतिविधाय तत्र पुनः।

विन्यस्य कलशमस्मि
न्प्रपूजयेत्तरणिमपि च सावरणम्।।14.42।।

अङ्गैः प्रथमावरणं

ग्रहैर्द्वितीयं तृतीयमाशेशैः।

मुख्यतरगन्धसुमनो
धूपाद्यैरात्तभक्तिनम्रमनाः।।14.43।।

प्रागादिदिशासंस्थाः

शशिबुधगुरुभार्गवाः क्रमेण स्युः।

आग्नेयादिष्वश्रिषु
धरणिजमन्दाहिकेतवः पूज्याः।।14.44।।

शुभ्रसितपीतशुक्ला

रक्तासितधूम्रकृष्णकाः क्रमशः।

चन्द्राद्याः केत्वन्ता
वामोरुन्यस्तवामकरलसिताः।।14.45।।

अपरकराभयमुद्रा

विकृतमुखोऽहिः कराहिताञ्जलियुक्।

दंष्ट्रोग्रास्यो मन्दः
सुवर्णसदृशांशुकादिभूषश्च।।14.46।।

संपूज्यैवं विधिना

विधिवद्गोरोचनादिभिर्द्रव्यैः।

दद्यादर्घ्यं रवये
मन्त्री निजवाञ्छितार्थलाभाय।।14.47।।

गोरोचनास्रतिलवैणवराजिरक्त

शीताख्यशालिकरवीरजपाकुशाग्रान्।

श्यामाकतण्डुलयुतांश्च यथाप्रलाभा
न्संयोज्य भक्तिभरतोऽर्घ्यविधिर्विधेयः।।14.48।।

कृत्वा मण्डलमष्टपत्रलसितं तत्कर्णिकायां तथा

पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः।

आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां
कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत्।।14.49।।

गृहपरिमितमिष्ट्वा पूर्वक्लृप्त्या दिनेशं

प्रतिजुहुत निजर्क्षे वैकृते वा ग्रहाणाम्।

शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा
रिपुनृपजभये वा घोररूपे गदे वा।।14.50।।

अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च

सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः।

दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण
सव्याहृतीनि घृतहव्यघृतानि होमः।।14.51।।

सोमादीनां दिशि दिशि समाधाय वह्निं यथाव

द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च।

युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं
कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः।।14.52।।

अमुना विधिना हुतार्चनाद्यैः

प्रभजेद्यो दिनशो नरो दिनेशम्।

मणिभिः स धनैश्च धान्यवर्यैः
परिपूर्णावसथो भवेच्चिराय।।14.53।।

त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः।
व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः।।14.54।।

देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते।
आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः।।14.55।।

सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः।
तेजोज्वालामणिं हुंफट्स्वाहान्तैरङ्गमाचरेत्।।14.56।।

आदित्यं रविभानू

भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः।

सशिरोमुखहृद्गुह्यक
चरणेषु क्रमश एव मन्त्रितमः।।14.57।।

सशिरोमुखगलहृदयो

दरनाभिशिवाङ्घ्रिषु प्रविन्यस्येत्।

प्रणवाद्यैरष्टार्णैः
क्रमेण सोऽयं तदक्षरन्यासः।।14.58।।

अरुणोरुणपङ्कजे निषण्णः

कमलेऽभीतिवरौ करैर्दधानः।

स्वरुचाहितमण्डलस्त्रिणेत्रो
रविराकल्पशताकुलोऽवताद्वः।।14.59।।

संदीक्षितस्तु मन्त्री

मन्त्रं प्रजपेत्तु वर्णलक्षं तम्।

जुहुयात्ित्रमधुरसिक्तै
र्दुग्धतरुसमिद्वरैर्वसुसहस्रम्।।14.60।।

अथ वा सघृतैरन्नैः

समर्चयेन्नित्यशोऽर्घ्यमपि दद्यात्।

पूर्वोक्त एव पीठे
कुम्भं प्रणिधाय साधु संपूर्य।।14.61।।

शुद्धाद्भिररुणवासो

युगेन संवेष्ट्य पूजयेत्क्रमशः।

अङ्गावृतैः परस्ता
दादित्याद्यैरुषादिशक्तियुतैः।।14.62।।

मातृभिररुणान्ताभि

र्ग्रहैः सुरैश्चान्तसूर्यपरिषद्भिः।

सोषा सप्रज्ञा च
प्रभा च संध्या च शक्तयः प्रोक्ताः।।14.63।।



संपूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं

कृत्वा दत्तेन संख्यां वसुमपि गुरवे सांशुकं भोजयेच्च।

विप्रानादित्यसंख्यानिति विदितमनुं नित्यशोऽर्घ्यं च दद्या
द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम्।।14.64।।

इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा

न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात्।

समस्तदुरितापमृत्युरिपुभूतपीडादिका
नपास्य सुसुखी च जीवति परं च भूयात्पदम्।।14.65।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्दशः पटलः।।