Devotional Hyms - Vishnu

।।श्रीः।।

वीताखिलविषयेच्छं

जातानन्दाश्रुपुलकमत्यच्छम्।

सीतापतिदूताद्यं
वातात्मजमद्य भावये हृद्यम्।।1।।

तरूणारुणमुखकमलं

करुणारसपूरपूरितापाङ्गम्।

संजीवनमाशासे
मञ्जुलमहिमानमञ्जनाभाग्यम्।।2।।

शम्बरवैरिशरातिग

मम्बुजदलविपुललोचनोदारम्।

कम्बुगलमनिलदिष्टं
बिम्बज्वलितोष्ठमेकमवलम्बे।।3।।

दूरीकृतसीतार्तिः

प्रकटीकृतरामवैभवस्फूर्तिः।

दारितदशमुखकीर्तिः
पुरतो मम भातु हनुमतो मूर्तिः।।4।।

वानरनिकराध्यक्षं

दानवकुलकुमुदरविकरसदृक्षम।

दीनजनावनदीक्षं
पवनतपःपाकपुञ्जमद्राक्षम्।।5।।

एतत्पवनसुतस्य

स्तोत्रं यः पठति पञ्चरत्नाख्यम।

चिरमिह निखिलान्भोगा
न्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति।।6।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

हनुमत्पञ्चरत्नं संपूर्णम्।।