Comprehensive Texts

अथाभिवक्ष्ये महितस्य मन्त्र

स्यानुष्टुभः संग्रहतो विधानम्।

ऋष्यादिकैरङ्गपदैर्यथाव
द्दीक्षाजपार्चाहवनैः क्रमेण।।30.1।।

ऋषिरभिहितो वसिष्ठ

श्छन्दोऽनुष्टुप्च देवता रुद्रः।

त्र्यम्बकपदादिका स्या
न्मनुनैव षडङ्गक्लृप्तिरथ कथिता।।30.2।।

त्रिभिस्तु वर्णैर्हृदयं शिरश्च

चतुर्भिरष्टाभिरथो शिखा च।

उक्तं नवार्णैः कवचं तथाक्षि
पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः।।30.3।।

प्राक्प्रत्यग्याम्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ

हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च।

जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपार्श्वेषु पत्पाणिनासा
शीर्षेष्वप्यूर्ध्वतोऽर्णैर्न्यसतु पुनरधस्तोऽपि मन्त्री तथोर्ध्वम्।।30.4।।

चरणाग्रसंधिषु गुदा

धारोदरहृदयकंधरेषु पुनः।

बाह्वोः संध्यग्रास्य
घ्राणद्वयदृक्श्रुतिभ्रुशीर्षेषु।।30.5।।

वर्णान्न्यस्य शिरोभ्रू

दृग्वक्त्रकगलहृदुदरगुह्यषु।

ऊर्वोर्जान्वोः पदयोः
पदैश्च मनुवित्क्रमेण विन्यस्येत्।।30.6।।

वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत्।

वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च।
अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित्।।30.7।।

अच्छस्वच्छारविन्दस्थितिरुभयकराङ्कस्थितं पूर्णकुम्भं

द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ।

द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः।।30.8।।

प्रासादोक्ते पीठे

गव्यैर्वा दुग्धतरुकषायैर्वा।

संपूर्य कलशमस्मि
न्महेशमावाह्य पूजयेद्भक्त्या।।30.9।।

अङ्गैराद्यार्काद्यैः

पुनरावृतिरष्टभिर्द्वितीया स्यात्।

मन्त्रार्णशक्तिभिः स्युः
पुनश्चतस्रो दिशापवज्राद्यैः।।30.10।।

अर्केन्दुधरणितोया

नलेरवियदात्मसंज्ञकास्ते च।

आनुष्टुभमित्यष्टा
वरणं प्रोक्तं विधानवरमेवम्।।30.11।।

रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा।
विश्वा विद्या सुधा प्रह्वा सारा संध्या शिवा निशा।।30.12।।

आर्द्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिर्द्युतिर्मतिः।
परोमा पावनी पद्मा शान्ता मेधा जयामला।।30.13।।

द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात्।
शिवानुभावतो नित्यं जगदाप्याययन्ति याः।।30.14।।

इति परिपूज्य महेशं

कलशजलैः समभिषेचयेच्छिष्यम्।

कनकांशुकरत्नाद्यै
र्गुरुमपि परिपूज्य मनुमतः सिद्धम्।।30.15।।

प्रजपेल्लक्षायत्या

द्रव्यैर्जुहुयाज्जपावसाने च।

बिल्वपलाशौ खदिरो
वटतिलसिद्धार्थदौग्धदुग्धानि।।30.16।।

दधिदूर्वेति दशैता

न्याज्यसमेतानि होमवस्तूनि।

एकैकशः सहस्रं
दशभिर्हुत्वा प्रतर्प्य विप्रांश्च।।30.17।।

भवति नरः सिद्धमनु

र्मन्त्रेण च सर्वकर्मकर्ता स्यात्।

बिल्वैरयुतं हुत्वा
महतीं लक्ष्मीमवाप्नुयाद्विप्रः।।30.18।।

तावद्भिर्द्विजवृक्षै

र्द्विजः श्रियं पुष्कलामवाप्नोति।

खदिरसमिदयुतहोमा
त्तेजोबलपुष्टिमाप्नुयादिष्टाम्।।30.19।।

न्यग्रोधायुतहोमा

द्धनधान्यसमृद्धिमेति नचिरेण।

अयुतं तिलैः प्रजुह्व
न्नपमृत्योः पाप्मनो विमुक्तः स्यात्।।30.20।।

सिद्धार्थायुतहोमो

वैरिणमपमृत्युमपि विनाशयति।

पायसहुतेन परमां
रमामथायुर्यशो लभेन्मर्त्यः।।30.21।।

दुग्धहुतात्कान्तिः स्या

त्परकृत्या नश्यति श्रियं लभते।

दधिदोमतोऽन्नवान्स्या
त्संवननकरं च तं वदन्ति बुधाः।।30.22।।

दूर्वायुतेन जुहुया

द्रोगान्निर्वास्य सर्वमपमृत्युम्।

गर्वितधीरब्दानां
विप्रवरः सर्वथा शतं जीवेत्।।30.23।।

निजजन्मदिने पयोन्धसा वा

शतवीर्यत्रितयैः पयोघृताक्तैः।

जुहुयाच्च शतं सविंशतिं यः
स लभेदायुररोगतां चिराय।।30.24।।

काष्मर्यदारुसमिधां त्रिशतं सहस्रं

सर्पिःपयोन्नसहितं त्रितयं जुहोतु।

विप्रान्प्रतर्प्य च गुरून्परिपूज्य सम्य
ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः।।30.25।।

स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे

दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः।

लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु संदीयते
स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत्।।30.26।।

गायत्रिवर्णपरिपूर्णतनुस्तु भानु

स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः।

आनुष्टुभाक्षरसमग्ररुचिः शशाङ्को
दद्युः समुद्यतममी परिवाञ्छितं वः।।30.27।।

एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो

मन्त्रोऽभिकाङ्घितफलाप्तिदकामधेनुः।

प्रोक्तो हिताय जगतां मुनिभिः कृपार्द्र
चित्तैर्यथोक्तमथ संग्रहतो वदामि।।30.28।।

ऋष्याद्याः पूर्वोक्ता

स्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः।

शिर एकादशभिश्च
द्वाविंशद्भिस्तथा शिखाकवचम्।।30.29।।

नयनं पञ्चदशार्णैः

ससप्तभिर्दशभिरस्त्रमङ्गविधिः।

विन्यासं च मनूनां
मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात्।।30.30।।

स्मर्तव्याखिललोकवर्ति सततं यज्जङ्गमस्थावरं

व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः।

यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते
तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः।।30.31।।

लक्षायतो जपविधिः

शताक्षरस्याथ होमविधिरुक्तः।

अयुतावधिको द्रव्यं
दौग्धान्नं सर्पिषा समायुक्तम्।।30.32।।

सौरे पीठे पूज्या

पूर्वोक्ताङ्गैः समावृतिः प्रथमा।

प्रह्लादिन्याद्याभि
स्तिस्रः प्रोक्ताः क्रमात्समावृतयः।।30.33।।

पञ्चम्यावृतिरुक्ता

त्रैष्टुभवज्जागतादिभिस्तदनु।

स्याच्चरमादिभिरावृति
चतुष्कमुक्तं दशम्यथेन्द्राद्यैः।।30.34।।

इति शताक्षरमन्त्रसमर्चना

निगदितेह दशवरणा बुधैः।

प्रजपतामभिकाङ्क्षितसिद्धये
निखिलसंसृतिमोक्षपदाप्तये।।30.35।।

दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे

दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा।

लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा
रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि।।30.36।।

अनुदिनमघशान्त्यै संयतात्मा सहस्रं

प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम्।

अपि दिनकरसंख्यं भोजयीत द्विजाती
न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः।।30.37।।

शतं शतं प्रातरतन्द्रितोद्यतो

जपेद्द्विजो मन्त्रमिमं शताक्षरम्।

अरोगजुष्टं बहुलेन्दिरायुतं
शतं स जीवेच्छरदां सुखेन सः।।30.38।।

सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः।
सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्।।30.39।।

प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च।
जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः।।30.40।।

मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या

द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम्।

विमलमतिररातिध्वंसने त्रिष्टुबाद्यं
दिनमनु दिनवक्त्रे वत्सरं संयतात्मा।।30.41।।

शताक्षरमनोरयं क्रम उदीरितः संग्रहा

द्भजेदमुमतन्द्रितो दिनश एव मन्त्री रहः।

अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे
ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये।।30.42।।

संवादसूक्तविहितं

विधानमथ साङ्गदेवतारूपम्।

वक्ष्यामि साधकाना
मनुदिनमभिवाञ्छितप्रदानकरम्।।30.43।।

ऋषिरपि संवननोऽस्या

नुष्टुप्च त्रिष्टुबुच्यते च्छन्दः।

संवादाद्यः प्रोक्तः
संज्ञानाद्यश्च देवता वह्निः।।30.44।।

ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू

रुद्रः स्यादिह तु शिखेश्वरश्च वर्म।

नेत्रे द्वे भवति सदाशिवस्तथास्त्रं
सर्वात्मेत्यथ कथितं षडङ्गमेवम्।।30.45।।

धवलनलिनराजच्चन्द्रमध्ये निषण्णं

करविलसितपाशं साङ्कुशं साभयं च।

सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं
प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्त्रम्।।30.46।।

सहस्रकाणां दशभिश्चतुर्भिर

प्यथो सहस्रैश्च चतुर्भिरन्वितम्।

जपेन्मनुं सम्यगथाभिदीक्षितः
पयोन्धसान्ते जुहुयाद्दशांशकम्।।30.47।।

यजेत्पुराङ्गैश्च तदर्चनाविधौ

पुनर्द्वितीयावरणेऽग्निमूर्तिभिः।

अनन्तरं च त्रिदिवेश्वरादिभिः
क्रमेण वह्निं विधिनेति पूजयेत्।।30.48।।

संवादसूक्ते विधिनेत्यनेन

संसाधिते कर्म करोतु मन्त्री।

चतुःशतं चापि दशोत्तरेण
चतुश्चतुष्कं प्रजपेद्धुनेद्वा।।30.49।।

पायसेन मधुरत्रयभाजा

विप्रराजतरुजैः कुसुमैर्वा।

सर्पिषा स्तनजवृक्षसमिद्भि
र्वाञ्छितार्थविधये प्रजुहोतु।।30.50।।

जुहुयात्कलाचतुष्कैः

प्रत्यृचमायोज्य कादिवर्गचतुष्कैः।

तद्वच्च पयशलाद्यै
र्वर्गैः संयोज्य पूर्ववन्मतिमान्।।30.51।।

तद्वदृचं प्रतियोज्य

त्रिष्टुप्पादांश्च पूर्वसंख्येन।

जुहुयात्सर्पिःसिक्तं
पायसमचिरेण कार्यसमवाप्त्यै।।30.52।।

प्रतिपादमथर्क्पादं

प्रतियोज्य जुहोतु पूर्ववन्मतिमान्।

तेनाभीष्टावाप्ति
र्नचिरेण नरस्य हस्तगा भवति।।30.53।।

अक्षरपादात्ित्रष्टु

ब्युक्तैः सूक्तैस्तु पूर्वसंख्येन।

जुहुयात्समाजरूपं
संवादयितुं प्रतर्पयेद्वाग्भिः।।30.54।।

उद्दिश्य यद्यदिह मन्त्रितमो जुहोति

सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः।

व्यस्तैर्यथाविभवतो विधिवत्समस्तै
स्तत्तस्य सिध्यति समग्रमयत्नमेव।।30.55।।

ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते।
ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदवता।।30.56।।

अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः।
षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः।।30.57।।

अङ्गुल्यग्रससंधिपायुशिवसंज्ञाधारनाभिष्वथो

कुक्षौ पृष्ठहृदोरुरोजगलदोःसंध्यग्रवक्त्रेषु च।

गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के
सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात्।।30.58।।

अच्छांशुकाभरणमाल्यविलेपनाढ्यः

पाशाङ्कुशाभयवरोद्यतदोः सरोजः।

स्वच्छारविन्दवसतिः सुसितः प्रसन्नो
भूयाद्विभूतिविधये वरुणश्चिरं वः।।30.59।।

अङ्गैरष्टभिरहिपै

र्दिशाधिपैः समभिपूज्य वारीशम्।

कलशैः पुनरभिषिञ्चे
त्परमगुरुर्मन्त्रजापिनं शिष्यम्।।30.60।।

वसुभिः प्रसाद्य देशिक

मथ शिष्यो मनुमिमं जपेल्लक्षम्।

जुहुयाच्च दुग्धपक्वै
रन्नैरयुतं घृताप्लुतैर्मतिमान्।।30.61।।

ऋगियमृणमोचनी स्या

ज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः।

संप्राप्तदुर्गतेरपि
सद्यो हृद्यां च संवहेल्लक्ष्मीम्।।30.62।।

इक्षोः सितैश्च शकलै

र्घृतसंसिक्तैश्चतुर्दिनं जुहुयात्।

सकलोपद्रवशान्त्यै
तथर्णमुक्त्यै च संपदे सुचिरम्।।30.63।।

वैतससमिदयुतहुता

द्वृष्टिमकालेऽपि वितनुते वरुणः।

गव्यक्षीरसमेता
त्ित्रदिनकृताद्दिनमुखेषु मुदितमनाः।।30.64।।

शतभिषजि समुदितेऽर्के

चतुःशतं पायसं हुनेत्सघृतम्।

ऋणमोचनाय लक्ष्म्यै
जनसंवननाय शुक्रवारे वा।।30.65।।

पाशाबद्धं वैरिण

मङ्कुशसंप्रोतमम्बुधेः पारे।

ध्यायन्परे क्षिपन्तं
वरुणं जुहुयाच्च वा तथा प्रजपेत्।।30.66।।

पाशनिबद्धं वैरिण

मसिना च्छित्वाशु नाशयन्तममुम्।

ध्यायन्वेतससमिधा
गोमूत्रयुजा हुनेत्तदपहत्यै।।30.67।।

दौग्धान्नैर्भृगुवारे

घृतसंसिक्तैः कृतश्च हवनविधिः।

ऋणमोक्षदश्च विविधो
पद्रवशमकृद्रमाकरः प्रोक्तः।।30.68।।

पश्चिमसंध्यासमये

पश्चिमवदनोऽनलं समाराध्य।

ऋचमेनामभिजप्या
च्चतुःशतं सकलदुःखनाशाय।।30.69।।

शालीघृतसंसिक्ताः

सरिदन्तरतो जुहोतु परसेनाम्।

संस्तम्भयितुं त्रिदिनं
सुमना मन्त्री चतुःशतावृत्त्या।।30.70।।।

प्रत्यङ्मुखोऽथ मन्त्री

प्रतर्पयेद्वा जलैः सुशुद्धतरैः।

यः सोऽप्युपद्रवाणां
रुन्धेन्निवहं श्रियं समृच्छति च।।30.71।।

बहुना किमनेन मन्त्रिमुख्यो

मनुनाशु प्रतिसाधयेदभीष्टम्।

हवनक्रिययाथ तर्पणैर्वा
सजपैः पाशभृतो महामहिम्नः।।30.72।।

अथ लवणमनुं वदामि साङ्गं

सजपं सप्रतिपत्तिकं सहोमम्।

विधिवद्विहितेन येन सर्वां
जगतीमात्मवशे करोति मन्त्री।।30.73।।

लवणाम्भसि चेत्याद्या द्वितीया लवणे इति।
दहेति च तृतीया स्यात्सदग्ध्वेति चतुर्थ्यपि।।30.74।।

ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि।
ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम्।।30.75।।

चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते।
पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः।।30.76।।

सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः।

अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता।
अग्निरात्री तथा दुर्गा भद्रकाली समीरिता।।30.77।।

अरुणोऽरुणपङ्कजसंनिहितः

स्रुवशक्तिवराभययुक्तकरः।

अमितार्चिरजात्तगतिर्विलस
न्नयनत्रितयोऽवतु वो दहनः।।30.78।।

नीलवरांशुककेशकलापा

नीलतनुर्निबिडस्तनभारा।

साङ्कुशपाशसशूलकपाला
यामवती भवतोऽवतु नित्यम्।।30.79।।

करकमलविराजच्चक्रशङ्खातिशूला

परिलसितकिरीटा पातितानेकदैत्या।

त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी पातु कात्यायनी वः।।30.80।।

सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा

कपालपरशूल्लसड्डमरुका त्रिशूलाकुला।

घनाघननिभा रणद्रुचिरकिङ्किणीमालिका
भवद्विभवसिद्धये भवतु भद्रकाली चिरम्।।30.81।।

खेटासिमुसलतोमर

कपालशक्तीः सपाशसृणि दधती।

दंष्ट्रोग्रा सिंहस्था
৷৷.रात्रिकालिका ध्येया।।30.82।।

अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम्।
प्रजपेत्ित्रसहस्रं वा सम्यगेनं समाहितः।।30.83।।

दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा।
एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा।।30.84।।

वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः।
दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि।।30.85।।

आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम्।
संदीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान्।।30.86।।

निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम्।
चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत्।।30.87।।

एतां साध्यर्क्षवृक्षेण शालिपिष्टेन चापराम्।
चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम्।।30.88।।

तासु हृद्देशलिखितसाध्याख्यासु समाहितः।
सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः।।।30.89।।

उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम्।
विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम्।।30.90।।

लम्बयेदम्बरे सिद्धमयीमूर्ध्वमधोमुखीम्।
पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति।।30.91।।

रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः।
सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः।।30.92।।

कुडुबं पोतलवणं सुश्लक्ष्णं परिचूर्णितम्।
दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम्।।30.93।।

आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ।
तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः।।30.94।।

तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः।
अष्टोर्ध्वशतसंख्यं वा तथाष्टोर्ध्वसहस्रकम्।।30.95।।

ऋक्पञ्चकं पञ्चविंशत्संख्यं प्रतिकृतिं स्पृशन्।
जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि।।30.96।।

सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसंख्यकैः।
शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि।।30.97।।

सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च।
मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत्।।30.98।।

अधो गुह्यादभेदः स्यादूर्ध्वं भेदेऽन्विते सति।
आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत्।।30.99।।

अङ्गुष्ठसंधिप्रपदजङ्घाजानूरुपायुषु।
सलिङ्गनाभिजठरहृदयेषु स्तनद्वये।।30.100।।

कंधराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके।
ललाटशिरसोर्न्यस्येत्प्रतिमायां च संहरेत्।।30.101।।

उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा।
साध्यसंमुख आसीन आदध्याद्धव्यवाहनम्।।30.102।।

प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यर्च्य दीप्तिमान्।
राजीकुशीतपुष्पाद्भिश्चषके रजतादिके।।30.103।।

देवतां प्रतिपाद्यार्घ्यं दत्त्वा कार्यार्थसिद्धये।
उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः।।30.104।।

त्वमाननममित्रघ्न निशायां हव्यवाहन।
हविषा मन्त्रदत्तेन तृप्तो भव मया सह।।30.105।।

जातवेदो महादेव तप्तजाम्बूनदप्रभ।
स्वाहपते विश्वमक्ष लवणं दह शत्रुहन्।।30.106।।

ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत्।
महादेवि नमस्तुभ्यं वरदे कामदा भव।।30.107।।

तमोमयि महादेवि महादेवस्य सुव्रते।
स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे।।30.108।।

दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले।
चक्रशङ्खधरे देवि दुष्टशत्रुभयंकरि।।30.109।।

नमस्ते दह शत्रुं मे वशमानय चण्डिके।
शाकंभरि महादेवि शरणं मे भवानघे।।30.110।।

भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि।
सपत्नान्मे दह दह पच शोषय तापय।।30.111।।

शूलादिशक्तिवज्राद्यैरुत्कृत्योत्कृत्य मारय।
महादेवि महाकालि रक्षात्मानं कुमारिके।।30.112।।

पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा।
दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम्।।30.113।।

साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसंख्यया।
दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः।।30.114।।

दक्षहस्तं तृतीयं स्याद्गलादूर्ध्वं चतुर्थकम्।
पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च।।30.115।।

सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया।
सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु।।30.116।।

एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत्।
होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत्।।30.117।।

द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते।
वामबाहुश्चतुर्थस्तु मध्यादूर्ध्वं तु पञ्चकम्।।30.118।।

अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः।
हुत्वैवं पूर्वसंप्रोक्तैरुपस्थापकमन्त्रकैः।।30.119।।

अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम्।
सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम्।।30.120।।

दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि।
अंशुकं रुचकं धान्यं दत्त्वा संप्रीणयेद्गुरुम्।।30.121।।

एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा।
अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः।।30.122।।

सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः।
हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः।।30.123।।

वराहपारावतयोः पुरीषेण समन्वितैः।
एतैश्च संमिश्रयतु लोणं पूर्वोक्तसंख्यकम्।।30.124।।

पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत्।
प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसंख्यकम्।।30.125।।

पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे।
दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम्।।30.126।।

उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः।
वामपादं समारभ्य जुहुयात्पूर्वसंख्यया।।30.127।।

समापयेद्दक्षपादं विकारेणायसो वशी।
त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः।।30.128।।

तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः।
प्राणायामादिभिरपि गायत्रीजपहोमकैः।।30.129।।

विमुक्तपापो भूत्वा तु स पुनर्विहरेत्सुखम्।
यां कल्पयन्त्यपामार्गराजीघृतहवींषि च।।30.130।।

पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत्।
यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत्।।30.131।।

इति लवणमनोर्विधानमेवं

प्रणिगदितं विधिवत्प्रयोगभिन्नम्।

विधिममुमथ साधु संप्रयुञ्ज्या
द्व्रजति फलं निजवाञ्छितं चिराय।।30.132।।

अथ वा लवणैः परागभूतै

र्मधुराक्तैः पुनरष्टमीनिशाद्यम्।

जुहुयात्तु चतुर्दशीनिशान्तं
कुडुबोन्मानितमेभिरेव मन्त्रैः।।30.133।।

नारीनरान्वा नगरं नृपान्वा

ग्रामं जनान्वा मनसोऽनुकूलान्।

वशीकरोत्येव हुतक्रियेयं
चिराय नैवात्र विचारणीयम्।।30.134।।

वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली।
तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत्।।30.135।।

निक्षिप्य हृदये किंचित्कीटान्तां संस्पृशन्पुनः।
प्राणार्पणेन यत्कार्यं क्षिप्रं कुर्याद्विचक्षणः।।30.136।।

अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम्।
कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत्।।30.137।।

तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम्।
धातून्मनश्च बुद्धिं च संक्षिपेदप्यहंक्रियाम्।।30.138।।

तत्सर्वं तेन चण्डेन समीरेण समीरितम्।
अवामनासारन्ध्रेण स्वसमीपमुपानयेत्।।30.139।।

प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वर्त्मना।
प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा।।30.140।।

याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां

तत्केसरार्पितपरागपरिष्कृताङ्गान्।

संचिन्त्य साध्यहृदयेऽपि तथैव भूयः
साध्याम्बुजस्थानलिपिस्वकीयैः।।30.141।।

हृत्पद्ममध्यस्थिततन्तुजालै

रेकैकमेकोत्पतितैः क्रमेण।

निश्वासमात्रेण सुखं प्रविष्टा
स्तत्प्राणमार्गेण हरेद्द्विरेफान्।।30.142।।

वायव्याग्नेयैन्द्रवारीण्महेश

क्रव्यात्सोमप्रेतनाथाश्रितेषु।

किञ्जल्केषु प्राणभूतद्विरेफां
स्तत्संबन्धांस्तन्तुभिर्बिन्दुभूतैः।।30.143।।

अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम्।
प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः।।30.144।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रिंशः पटलः।।